________________
कर्मप्रकृतिः
क्रमः।
FASDARKa
(चू०) 'दुसुवे'त्ति-सम्मत्तसम्मामिच्छत्तेसु मिच्छत्तं संकमति। 'एगे' इति-संमत्ते सम्मामिच्छत्तं संफमति।। 'सुद्धदिहिस्स' इति संमदिहिस्सेव । एरिसो संकमो ण अण्णस्सेति णियमिजह । भणियं सामण्णलक्षणं णियमो १४संक्रमकरणे योजहि संकामिवति, तेण विणाणस्थिसंकमोत्ति, तेण पडिग्गहलक्खणंभण्णति-'परिणमयति जिस्से तंपगतीए प्रकृतिसपडिग्गहो एसो'। यस्यां प्रकृतौ जीवस्तभावेन परिणमयति सोप्रकृतिः पगतीए संकममाणाए पडिग्गहो वुच्चति॥२॥
(मलय०) एतच्च लक्षणं दर्शनत्रिकव्यतिरेकेणान्यत्र द्रष्टव्यम् , दर्शनत्रिके पुनर्बन्धं विनापि संक्रमोऽवगन्तव्यः । तथा चाह-'दुसुम |ति । शुद्धदृष्टेः सम्यग्दृष्टेद्वयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारभृतयोमिथ्यात्वम् , एकस्मिंश्च सम्यग्मिथ्यात्वं बन्धं विनापि संक्रा-14 |मति । इयमत्र भावना-इह मिथ्यात्वस्यैव बन्धो न सम्यक्त्वसम्यग्मिथ्यात्वयोः, यतो मिथ्यात्वपुद्गला एव मदनकोद्रवस्थानीया
औषधविशेषकल्पनापशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन त्रिधा क्रियन्ते, तद्यथा-शुद्धा अर्धविशुद्धा अविशुद्धाश्च । तत्र विशुद्धाः सम्यक्त्वम् , अधविशुद्धाः सम्यग्मिथ्यात्वम् , अविशुद्धा मिथ्यात्वम् । तत्र विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिथ्यात्वयोर्वन्धं वि-| नापि तत्र मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यात्वं च सम्यक्त्वे इति । तदेवमुक्त संक्रमस्य सामान्यलक्षणम् , संप्रति यासु प्रकृतिषु प्रकृत्यन्तरस्थं दलिकं संक्रमयति तासां संज्ञान्तरमाह-'परिणमयइ' इत्यादि । यस्यां प्रकृती आधारभूतायां तत्प्रकृत्यन्तरस्थं दलिकंY परिणमयति-आधारभूतप्रकृतिरूपतामापादयति एषा प्रकृतिराधारभृता पतगृह इव पतगृहः संक्रम्यमाणप्रकृत्याधार इत्यर्थ ॥२॥ (उ०) एतच्च बन्धगर्भितं संक्रमलक्षणं दर्शनत्रिकव्यतिरेकेण द्रष्टव्यमित्यभिप्रायवानाह-'शुद्धदृष्टेः'-सम्यग्दृष्टेद्वयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारभूतयोमिथ्यात्वम् , 'एकस्मिंश्च' सम्यक्त्वे सम्यग्मिथ्यात्वं बन्धं विनापि संक्रामति । इह हि मिथ्यात्वस्यैव |