SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ परिणत आत्मा तदनुभावेन प्रकृत्यन्तरस्थं दलिक यत्परिणामयति स संक्रम इत्युक्तम् ||१|| उ० श्रीयशो० व्याख्या - उक्तं बन्धन करणम्, अथोद्देशक्रमेण संक्रमकरणं वक्तुमवसरप्राप्तम्, संक्रमश्च प्रकृतिस्थित्यनुभाग प्रदेश विषयभेदाच्चतुर्धा । तत्र प्रथमतः संक्रमसामान्यलक्षणमाह - इह जीवो यद्बन्धनपरिणतो यस्याः प्रकृतबन्धकत्वेन परिणतः अनेनेदं मूल्ययदुत जीवकर्मणोस्तथातथावध्यबन्धकभावे परस्परं सव्यपेक्षत्वमिति । उक्तं च "जीवपरिणामहेऊ कम्मत्ता पोग्गला परिणमन्ति । पोलक मणिमित्तं जीवो वि तहेव परिणमई" इति । बध्यमाने कर्मणि जीवस्य तथाविधाध्यवसायद्वारा प्राग्बद्ध कर्मणश्च तथाविधविपाकोदयद्वारा मिथः सहकारित्वमित्यस्या निर्गलितोऽर्थः । प्रयोगेण संक्केशाख्येन विशोध्याख्येन वा वीर्यविशेषेण प्रकृत्यन्तरं प्रकृत| बध्यमानप्रकृतिभिन्ना प्रकृतिः, तत्रस्थम् (दलिकम् ), तदनुभावे - सप्तम्यास्तृतीयार्थत्वाद् बध्यमानप्रकृतिस्वभावेन यत्परिणमयति स संक्रम | उच्यते । बध्यमानासु प्रकृतिषु मध्येऽवध्यमानप्रकृतिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया तस्य परिणमनं यद्, यथ बध्यमानानामेव | भिन्नप्रकृतीनां दलिकस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रम इति भावः । तत्र वध्यमान प्रकृतिववध्यमानप्रकृतीनां संक्रमो यथा| सातवेदनीये बध्यमानेऽसातवेदनीयस्य, उच्चैर्गोत्रे वा नीचैगोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा वध्यमाने मतिज्ञानावर| णीये बध्यमानस्यैव श्रुतज्ञानावरणस्य, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानस्यैव मतिज्ञानावरणस्य संक्रम इत्यादि || १ || धादिरित्तो वि अत्थि संकमो, सो ण भणितो । तस्स संगहत्थं इमं गाहट्ठो दुवे दिट्ठदुगं बंधे विणा वि सुद्धदिट्ठिस्स । परिणमयइ जीसे तं पगईइ पडिग्गहो एसो ॥२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy