________________
कर्मप्रकृतिः ॥ १ ॥
आ० श्रीमलय० टी० – देवमुक्तं बन्धन करणम्, संप्रत्युद्देशक्रमेण वक्तुमवसर प्राप्तं संक्रमकरणम् । संक्रमश्च प्रकृतिस्थित्यनुभाग प्रदेशरूपविषयभेदाच्चतुर्विधः। तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमभिधातुकाम आह-'सो संकमु' ति । इह जीवो 'यद्बन्धनपरिणतो' यस्याः प्रकृतेर्बन्धनेन बन्धकत्वेन परिणतः अनेन किलेदमावेद्यते यदि जीवस्तथारूपबन्धनपरिणामपरिणतो भवति ततः कर्मवर्गणापुद्गला अपि कर्मरूपतया परिणमन्ते, नान्यथा । उक्तं च- "जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमन्ति । पोग्गलकम्मनिमित्तं जीवो वि तहेव परिणम ||" अस्या अक्षरगमनिका - जीवसत्कात् परिणामाद्-अध्यवसायाद्धेतोः, जीवपरिणामं हेतुमाश्रित्येत्यर्थः, कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशावगाढा : पुद्गलाः कर्मरूपतया - ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते । अथ जीवस्यापि तथारूपः परिणामः कस्माद्भवतीति चेत्, उच्यते- ' पुग्गल' इत्यादि । पुद्गलरूपं प्राग्बद्धं कर्म विपाकोदय प्राप्तं तन्निमित्तं तत्सामर्थ्यादिति भावः । जीवोऽपि तथैव स्वप्रदेशावगाढकर्मवर्गणान्तःपातिपुद्गलकर्मरूपतापत्तिहेतुतयैव परिणमत इति । 'पओगेणं' ति - प्रयोगेण संक्लेशसंज्ञितेन विशोधि संज्ञितेन वा वीर्यविशेषेण, विवक्षितायाः प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं विवक्षितवध्यमान प्रकृतिव्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः, तत्रस्थं दलिकं, तदनुभावेन बध्यमानप्रकृतिस्वभावेन, यत् परिणमयति-परिणमनमापादयति स संक्रम उच्यते । एतदुक्तं भवतिबध्यमानासु प्रकतिषु मध्येऽवध्यमानप्रकृतिदलिकं प्रक्षिप्य बध्यमान प्रकृतिरूपतया यत्तस्य परिणमनम् यच्च वा बध्यमानानां प्रकृतीनां द लिकरूपस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रमणमित्युच्यते । तत्र बध्यमान प्रकृतिष्ववध्यमानप्रकृतीनां संक्रमो यथा-सात वेदनीये बध्यमानेऽसावेदनीयस्य, उच्चैगोत्रे वा नीचैगोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा - बध्यमाने मतिज्ञानावरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि । इह यत्प्रकृतिबन्धकत्वेन
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ १ ॥