SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२०२॥ Katha विंशतिकोटाकोटीलक्षणामुत्कृष्टां, अधिकसंक्लेशे वर्तमानास्तु नरकयोग्यमेव बध्नीयुरिति तद्वयुदासः । देवनारकास्त्वतिसंक्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्तीति तेषां ग्रहणम् । अत्र च सामान्योक्तावपि सेवार्त्तसंहननौदारिकोपाङ्गत्योरुत्कृष्टस्थितिबन्धकाः सनत्कुमारादिदेवा द्रष्टव्याः, नेशानान्ताः । ते हि तत्प्रायोग्यसंक्लेशे वर्तमानाः प्रकृतप्रकृत्योरुत्कृष्टतोऽप्यष्टादशकोटाकोटीलक्षणां मध्यमा| मेव स्थितिं बध्नन्ति । सर्वोत्कृष्टसंक्लेशाश्चै केन्द्रियप्रायोग्यमेव बध्नन्ति । न चैते प्रकृती एकेन्द्रियप्रायोग्यान्तर्भूते इति । उक्ताष्टाविंशतिप्रकृतिभ्यः शेषाणां द्विनवतिसंख्यप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्टस्थितिबन्धकाः । तत्र वर्णचतुष्कतैजसकार्मणागुरुलघुनिर्माणोपघातभय जुगुप्सामिध्यात्वकषायषोडशकज्ञानावरणपञ्चकदर्शनावरणनवकान्तरायपञ्चकलक्षणानां सप्तचत्वारिंशतो ध्रुवबन्धिनीनामध्रुवबन्धिनीनामपि मध्ये सातारतिशोकनपुंसक वेदपश्चेन्द्रियजाति हुंड संस्थानपराघातोच्छ्वासाशुभविहायोगतित्र सचतुष्कास्थिरपट्कनीचैर्गोत्रलक्षणानां विंशतेः प्रकृतीनां सर्वोत्कृष्टसंक्लेशेनोत्कृष्टां स्थितिं चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति । शेषाणां त्वध्रुवबन्धि| नीनां सातरतिहास्य स्त्रीपुंवेदमनुष्यद्विकप्रथमसंस्थानसंहननपञ्चकप्रशस्त विहायोगतिस्थिरषद्को चैर्गोत्रलक्षणानां पञ्चविंशतिप्रकृतीनां तद्ध| न्धकेषु तत्प्रायोग्य संक्लिष्टा उत्कृष्टस्थितिबन्धका इति ज्ञेयम् । आहारकद्विकजिननाम्नोरपूर्वक रणक्षपकस्तद्भन्धस्य चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्बन्धकेषु अस्यैवातिविशुद्धत्वात्, तिर्यङ्मनुष्यदेवायुर्वर्जकर्मणां च जघन्यस्थितेर्विशुद्धिमत्ययत्वात् । संज्वलनचतुष्टय पुरुषवेदानामनिवृत्तिबादरक्षपकः, तद्बन्धस्य यथास्वं चरम स्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्भन्धकेष्वस्यैवातिविशुद्धत्वात् । ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्त रायपञ्चकसात| वेदनीययशः कीर्त्यच्चैर्गोत्राणां सूक्ष्मसंपरायक्षपकश्चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । वैक्रि | Satsa स्थिति बन्धप्ररूपणा. ||२०२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy