SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ DIDARSDADSHDDESS2SK ४ नामान्यतः मनुष्यनियमापुमन्यानुसायाममा गुमायो । म माना गया तो नाति, सम्य गणमानपाना। मुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टेः सकाशाद्विशुद्धयाधिक्यासिद्धेः । अत्र च विशेषवि-नायां विकलविकमूक्ष्मत्रिकदेवायुर्वनायु- विकमुरद्विकवैक्रियद्विकनरकाहिकलक्षणानां पञ्चदशप कृतीनामुत्कृष्टस्थिति तिर्यग्मनुष्या एव मिथ्यादृष्टयः प्रतिनियतसमये वध्नन्ति । देवनारका ह्येतास्तियन्मनुप्यायुर्वर्जा भवपत्ययादेव न बध्नन्ति ! तिर्यग्मनुष्यायुषी अपि त्रिपल्योपमलक्षणे उत्कृष्ट ने न बध्नन्ति । तस्मात्तिर्यग्मनुष्यायुपोत्कृष्टस्थितिबन्धकारितर्यग्मनुष्या एवं पूर्वकोट्यायुपस्तत्प्रायोग्यविशुद्धा द्रष्टव्याः । सम्यग्दृष्टेरतिविशुद्धमिथ्यादृष्टश्च देवायुबन्ध एव स्यादिति मिथ्यादृष्टित्वत-प्रायोग्यविशुद्धविशेषणहयम् । नारकायुषः पुनरेत एव तत्पायोग्यसंक्लिष्टाश वाच्या., अत्यन्तशुद्धस्यात्यन्तसंक्लिष्टस्य चायुबन्धस्य सर्वथा निषेधात । नरकद्विकवैक्रियद्विकयोश्चत एव सर्वसंक्लिष्टा उत्कृष्टस्थितिबन्धकाः। विकलजातित्रिकमुक्ष्मत्रिकयोस्तु तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः । अतिसंक्लिष्टा ह्येतत्प्रकृतिबन्धमुल्लङ्घय नरकपायोग्यमेव बघ्नी युः। विशुद्धास्तु विशुद्धितारतम्यात्पश्चेन्द्रियतिर्यमायोग्यं या मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा बनीयुरिति तत्प्रायोग्यसंक्लेशग्रहणम् । देवद्विकस्यापि तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टानामधोवर्तिमनुष्यादिप्रायोग्यबन्धसंभवात् , विशुद्धौ पुनरुत्कृष्टबन्धाभावादिति । स्थावरैकेन्द्रियजात्यातपानामीशानान्ता देवा उत्कृष्टस्थितिबन्धकाः। ततः परे देवा नैकेन्द्रियप्रायोग्यबन्धका इति तनिषेधः । तिर्यङ्मनुष्यास्त्वेतावति संक्तशे वर्तमाना एतद्वन्धमतिक्रम्य नरकमायोग्यमेव वघ्नन्तीति तेषामपि निषेधः । तिर्यरिद्वकौदारिकद्विकोद्योतसेवार्तसंहननानां सुरनारका उत्कृष्टस्थितिबन्धकाः। मनुष्यतिर्यश्चो ह्येतद्धन्वाहसंक्तशे वर्तमाना एतासां पद्मकृतीनामुत्कृष्टतोऽप्यष्टादशकोटाकोटिलक्षणां मध्यमा स्थिति बध्नन्ति, न तु PrerakesKSION
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy