________________
स्थिति
बन्धप्ररूपणा.
रूपाणामेकोनत्रिंशत्प्रकृतीनां जघन्यः स्थितिबन्धः सर्वविशुद्धे बादरैकेन्द्रिये पर्याप्तेऽन्तर्मुहूर्त यावल्लभ्यते । तदनन्तरं तस्मिन्नेवाध्यकर्मप्रकृतिः । वसायपरावृत्तेर्मन्दपरिणामेऽजघन्यः । पुनरपि कालान्तरे तस्मिन्नन्यस्मिन् वा भवे प्रतिपन्नविशुद्धौ जघन्य इति साद्यधुवावेतौ। उत्कृष्टः ॥२०१॥
सर्वसंक्लिष्टे संज्ञिमिथ्यादृष्टौ,अनुत्कृष्टश्च मध्यमपरिणामे तस्मिन्निति तावपि पर्यायलभ्यत्वात्साद्यधुवौ । शेषाणामधुवबन्धिनीनां चाध्रुवबन्धित्वादेव चत्वारोऽपि विकल्पाः साद्यधुवा ज्ञेयाः। ___स्वामित्वचिन्तायां तीर्थकरनाम्नो मनुष्यो नरकबद्धायुष्को नरकं जिगमिषुर्मिथ्यात्वप्रतिपत्तिप्राकसमये उत्कृष्टस्थितिबन्धकः,
उत्कृष्टस्थितेरुत्कृष्ट संक्लेशेनैव बन्धात् , तद्वन्धकेषु चास्यैवातिसंक्लिष्टत्वात् । आहारकद्विकस्याप्रमत्तयतिः प्रमत्तताभिमुखस्तथा । अमरा| युषः प्रमत्तः संयतः पूर्वकोव्यायुरप्रमत्तभावाभिमुखः स्वायुःशेषतृतीयभागाद्यसमये वर्तमानस्तथा । पूर्वकोटित्रिभागस्य द्वितीयादि
समयेषु बध्नतो नोत्कृष्टमायुर्लभ्यतेऽबाधायाः परिगलितत्वेन मध्यमत्वप्राप्तरित्याद्यसमयग्रहणम् । शुभेयं स्थितिर्विशुद्ध्या बध्यत | इति अप्रमत्तभावाभिमुखत्वग्रहणम् । शेषाणां षोडशोत्तरशतसङ्खयप्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्ट उत्कृष्टस्थिति| बन्धस्वामी । अत्र सर्वसंक्लिष्टत्वं प्रायोवृत्त्योच्यते, यावता तिर्यअनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धो बध्नातीति द्रष्टव्यं, तयोः
शुभस्थितिकत्वेन विशुद्धिजन्यत्वात् । ननु यदि विशुद्धथेदमायुर्द्वयं बध्यते तदा मिथ्यादृष्टेः सास्वादनो विशुद्धतर इति स कस्मादेतका दुत्कृष्टस्थितिबन्धकत्वेन नोच्यते ? न च वाच्यं तिर्यग्मनुष्यायुषी सास्वादनो न बध्नात्येवेति, तिर्यगायुषो बन्धो, मनुष्यायुष उदयः,13 | तिर्यग्मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा । मनुष्यायुषो बन्धो, मनुष्यायुष उदयः, मनुष्यमनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सास्वादनस्य वेति सप्ततिकाटीकायामभिधानात् इति चेत्, अत्र प्रतिविधीयते-सत्यामपि
RRIORSROOMED
CATESTROPICE
॥२०१॥