SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ | जघन्यः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भूयोऽपि भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवावभन्यभच्या | पेक्षया । मोहनीयस्य जघन्यः स्थितिबन्धः क्षपकस्यानिवृत्तिवादरसंपरायस्य चरमसमये, स चकसामयिक इति साद्यधुवः, ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपनमश्रेण्या सूक्ष्मसंपराये न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवौ प्राग्वत् । वेदनीयस्य चात्र सांपरायिकस्थितिबन्धापेक्षया सादित्वं भाव्यं, अन्यथा द्विसामयिकस्थितिबन्धस्तस्योपशान्तमोहादावपि | प्राप्यत इति । जघन्योत्कृष्टानुत्कृष्टाश्च स्थितिबन्धाः सप्तानामपि साद्यध्वाः। तत्र जघन्यः साद्यधुवतया पागेव भावितः । उत्कृष्टश्चासौ सर्वसंक्लिष्टे संज्ञिमिथ्यादृष्टौ कियत्कालं प्राप्यते, तदनन्तरमनुत्कृष्टः, भूयोऽपि कालान्तर उत्कृष्ट इति द्वावयेतौ पर्यायलभ्यत्वात्साद्यध्रुवौ । आयुषि जघन्यादयश्चत्वारोऽपि साद्यधुवाः प्रतिपत्तव्याः, आयुर्वन्धस्य प्रतिनियतकालभावित्वात् । उत्तरप्रकृतिषु ज्ञानावरणपचकान्तरायपञ्चकदर्शनावरणचतुष्टयसंज्वलनचतुष्टयरूपाणामष्टादशप्रकृतीनामजघन्या स्थितिः साद्यादितया चतुर्विधा । तथाहि-ज्ञाना वरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयानां जघन्यस्थितिबन्धः क्षपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानचरमसमये वर्तमानस्य, संज्वलनचतुष्टयस्य क्षपकस्यानिवृत्तिवादरसंपरायस्य स्वस्वबन्धव्यवच्छेदसमये, स चैकसामयिक इति साद्यधुवः, ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । एतासामेव जघन्योस्कृष्टानुत्कृष्टाः स्थितयः साद्यध्रुवाः । तत्र जघन्याऽनन्तरमेव भाविता, उत्कृष्टाऽनुत्कृष्टा च संज्ञिमिथ्यादृष्टौ पर्यायेण लभ्यते, सर्वसंक्लिष्टे उत्कृष्टा, तस्मिन्नेव मध्यमपरिणामे चानुत्कृष्टेति द्वे अपि साद्यध्रुवे । उक्ताऽष्टादशशेषाणां प्रकृतीनां सर्वा अपि जघन्याजघन्योत्कृष्टानुस्कृष्टाः स्थितयः साद्यधुवाः । तथाहि-निद्रापञ्चकमिथ्यात्वाद्यद्वादशकषायभयजुगुप्मातेजसकार्मणवर्णादिचतुष्टयागुरुलघूपघातनिर्माण
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy