SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२०॥ स्थितिबन्धप्ररूपणा. (मलय०) सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाह-'संखेजत्ति । सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां चतुःस्थानकरसबन्धका जीवाः। तेभ्योऽपि त्रिस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि द्विस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि परावर्त| मानाशुभप्रकृतीनां द्विस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि चतुःस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि त्रिस्थानकरसबन्धका विशेषाधिकाः । तथा चाह-'असुभाणं' इत्यादि। अशुभानाम्-अशुभप्रकृतीनां त्रिस्थाने-त्रिस्थानकस्य रसस्य बन्धकाः सर्वेषामुपरि विशेषाधिका वक्तव्याः:॥१०॥ (उ०)-सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाह-एतेषु द्वित्रिचतुःस्थानकरसेषु द्विविधप्रकृतीनां वर्तमानाः 'क्रमशः'-क्रमेण शु| भानां पश्चानुपूर्व्याऽशुभानां चादौ-पूर्वानुपूर्येत्यर्थः, जीवाःसंख्येयगुणा वाच्याः। नवरमशुभानां त्रिस्थानं सर्वोपरि वाच्यम् । तत्र च जीवा विशेषाधिका वाच्याः। तथाहि-सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां चतु:स्थानकरसबन्धका जीवाः । तेभ्यख्रिस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि द्विस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि परावर्तमानाशुभप्रकृतीनां द्विस्थानकरसबन्धकाः संख्येयगुणाः। | तेभ्योऽपि चतुःस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि त्रिस्थानकरसबन्धका विशेषाधिकाः। तदेवं कृता सप्रसङ्गं स्थितिबन्धनिरूपणा। साद्यादिप्ररूपणां चात्रेत्थं कुर्वन्ति-इहायुर्वर्जानां सप्तानां' मूलप्रकृतीनामजघन्यः स्थितिबन्धश्चतुर्धा-सादिरनादिर्बुवोऽधुवश्च । | तथाहि-मोहनीयवर्जानां षण्णां मूलप्रकृतीनां जघन्यः स्थितिबन्धः क्षपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानचरमसमये प्राप्यते । स च तदानीमेव भवतीति सादिः। द्वितीयसमये बन्धव्यवच्छेदादपगच्छतीत्यधुवः । एतादृशाजघन्यस्थितिबन्धादन्यः सर्वोऽप्य ॥२०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy