________________
SAHYASCARROO BACCHECK
(उ०)-तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, अथ परम्परोपनिधया तामाह-परावर्तमानप्रकृतीनां शुभानां चतुःस्थानकमशुभानां | वा द्विस्थानकरसं बघ्नन्तो ये ध्रुवप्रकृतीनां जघन्यस्थितिबन्धकत्वेन वर्तन्ते जीवास्तदपेक्षया जघन्यस्थितेः परतः पल्यासंख्येयमूलानिपल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानीत्यर्थः, गत्वाऽतिक्रम्यापरस्मिन् स्थितिस्थाने बन्धकत्वेन वर्तमाना जीवा द्विगुणा भवन्ति । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणस्थित्यतिक्रमेऽनन्तरस्थितिस्थाने द्विगुणा भवन्ति । एवं द्विगुणास्तावद्वाच्या यावत्मभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याप| रस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरमस्थितौ बन्धकत्वेन वर्तन्ते ये जीवास्तदपेक्षया द्विगुणहीना भवन्त्यर्धा भवन्तीत्यर्थः । ततः | पुनरपि तावतीः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने द्विगुणहीना भवन्ति । एवं तावद्वाच्यं यावद्विगुणहानिवक्तव्यतायामपि प्रभृतानि सागरोपमशतान्यतियन्ति । एवं परावर्तमानप्रकृतीनां शुभानां त्रिस्थानकरसबन्धका द्विस्थानकरसबन्धकाच, तथाऽशुभपरावर्तमानपकृतीनां द्विस्थानकरसबन्धकात्रिस्थानकरसबन्धकाश्चतु:स्थानकरसबन्धकाश्चोपयुज्य 'वाच्याः । एकस्मिन् द्विगुणवृद्ध्यन्तरे द्विगुणहान्यन्तरे वा स्थितीस्थानानि पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानि। नानान्तराणि नानारूपद्विगुणवृद्धिद्विगुणहा. निलक्षणानि पल्योपमस्य सम्बन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । नानाद्विगुणवृद्धिद्विगुणहानिस्थानानि स्तोकानि । तेभ्य एकस्मिन् द्विगुणवृक्ष्यन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानान्यसंख्येयगुणानि ॥ ९५ ॥ अणगारप्पाउग्गा बिट्ठाणगया उ दुविहपगडीणं । सागारा सव्वत्थ वि हिट्ठा थोवाणि जवमज्झा ॥१६॥ ठाणाणि चउट्ठाणा संखेज्जगुणाणि उवरिमेमेवं । तिट्ठाणे बिट्ठाणे सुभाणमेगंतमीसाणि ॥९७॥
205RSSDMCARD