SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१९६॥ स्थिति| बन्धप्ररू पणा. PRADESOSORRESea माणिगाणं उक्कस्सिगा ठितित्ति ॥१५॥ (मलय०)--तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया तामाह-'पल्ल'त्ति । परावर्तमानशुभप्रकृतीनां चतुःस्था| नगतरसबन्धका ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया जघन्यस्थितेः परतः 'पल्योपमस्यासंख्येयानि | वर्गमूलानि'-पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने वर्तमानाजीवा द्विगुणा | भवन्ति । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने द्विगुणा भवन्ति । एवं द्विगुणास्तावदक्तव्या यावत्प्रभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरमस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया द्विगुणहीना भवन्ति-अर्धा भवन्तीत्यर्थः । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा भवन्ति । एवं तावद्वाच्यं यावद्विगुणहानावपि प्रभूतानि सागरोपमशतान्यतिक्रामन्ति । एवं परावर्तमानशुभप्रकृतीनां त्रिस्थानकरसबन्धका द्विस्थानगतरसबन्धकाच, अशुभपरावर्तमानप्रकृतीनां तु द्विस्थानरसबन्धकात्रिस्थानरसबन्धकाश्चतुःस्थानरसबन्धंकाश्च वक्तव्याः। एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि पल्योपमस्यासंख्येयानि वर्गमूलानि-पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानीत्यर्थः । 'नानान्तराणि'-नानारूपद्विगुणवृद्धिद्विगुणहानिलक्षणानि पल्योपमस्य संबन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । नानाद्विगुणवृद्धिद्विगुणहानिस्थानानि स्तोकानि, एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि असंख्येयगुणानि ॥९५।। १ चूर्ण्यभिहितरीत्या यथानुसारं बोध्यम् । Reजद ||१९६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy