________________
कर्मप्रकृतिः ॥१९१।।
GOOG
स्थितिचन्धप्ररूपणा.
CROCODEDIORDS
संख्यभेदत्वं प्रतिपद्यते । एवं द्विस्थानगतादिष्वपि रसेष्वसंख्येयभेदत्वं वाच्यम् । एतदनुसारेण च कर्मणामपि रसेष्वेकस्थानगतत्वादि | स्वधिया परिभावनीयम् । एकस्थानगताच रसात् कर्मणां द्विस्थानगतादयो रसा यथोत्तरमनन्तगुणा वाच्याः। तदुक्तं-" अणतगुणिय कमेणियरे"। तथा केवलज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणीयानां, केवलदर्शनावरणवर्जानां त्रयाणां चक्षुरादिदर्शनावरणीयानाम् , | पुरुषवेदसंज्वलनचतुष्टयान्तरायपश्चकानां च सर्वसंख्यया सप्तदशप्रकृतीनां बन्धमाश्रित्य चतुर्धापि रसः सम्भवति । तद्यथा-एकस्था| नगतो द्विस्थानगतस्विस्थानगतश्चतुःस्थानगतश्च । शेषाणां तु शुभप्रकृतीनामशुभप्रकृतीनां वा द्विस्थानगतः त्रिस्थानगतश्चतुःस्थान-1 गतश्च, न तु कदाचनाप्येकस्थानगत इति वस्तुस्थितिः । तत्र शुभप्रकृतीनां चतुःस्थानगतादिक्रमेण रसस्य त्रैविध्यं प्रतिपाद्य सम्म त्यशुभप्रकृतीनां रसस्य त्रैविध्यमाह-'विवरीयतिगं च असुभाणं'। ता एव ध्रुवप्रकृतीबंध्नन्तो यदि परावर्तमाना अशुभप्रकृतीबंध्नन्ति तदा तासामनुभागं 'विपरीतत्रिक'-विपरीतं त्रिकं यस्य स तथा तं बध्नन्ति, तद्यथा-द्विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं च । इह ध्रुवप्रकृतीनां जघन्यां स्थिति बध्नन् परावर्तमानशुभप्रकृतीनां बन्धमागतानां चतुःस्थानगतं रसं बध्नाति, अत एव अशुभपरा| वर्तमानप्रकृतीनां तु द्विस्थानगतम् । अजघन्यां च ध्रुवप्रकृतीनां स्थिति बध्नन् परावर्तमानानां शुभप्रकृतीनामशुभप्रकृतीनां वा यथा
योगं बन्धमागतानां त्रिस्थानगतं रसं बध्नाति । उत्कृष्टां च स्थितिं ध्रुवप्रकृतीनां बध्नन् शुभप्रकृतीनां द्विस्थानगतम् , अशुभप्रकृतीनां | चतुःस्थानगतं रसं बध्नाति । ततः शुभप्रकृतीगतरसत्रैविध्यक्रमापेक्षयाऽशुभप्रकृतीनां रसत्रैविध्यक्रमस्य वैपरीत्यमुक्तम् ।।९०॥
___ (उ०)-अथ जीवसमुदाहारमभिधित्सुराह-ध्रुवप्रकृतीर्ज्ञानावरणीयपञ्चकदर्शनावरणीयनवकमिथ्यात्वषोडशकषायभयजुगुप्सातैजस-1 है कार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणान्तरायपश्चकलक्षणाः सप्तचत्वारिंशद्भध्नन्तः परावर्तमानकशुभप्रकृतीनां सातवेदनीयदेवग
॥१९॥