________________
कर्मप्रकृतिः ॥१८७॥
स्थितिबन्धप्ररूपणा
तथाहि-आयुषो जघन्यस्थितौ तद्वन्धहेतुभूता अध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते चान्यापेक्षया सर्वस्तोकाः । ततो | द्वितीयस्थितावसंख्येयगुणाः। ततोऽपि. तृतीयस्थितावसंख्येयगुणाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। स्यादेतत्-इहैकस्यामपि स्थितौ यद्यध्यवसायस्थानान्यसंख्येयानि परस्परविचित्राण्यभ्युपगम्यन्ते तदा स्थितेरपि वैचित्र्यं प्राप्नोति, मैवं, विचित्राणामपि नानाध्यवसायानामविचित्रकस्थितिजननशक्तिमत्त्वेनोक्तदोषाभावात् । स्थित्यवैचित्र्येऽध्यवसायवैचित्र्यमेव न स्यादिति चेन्न, स्थितिहेतुभृताध्यवसायवैचित्र्ये स्थितिवैचित्र्यस्यानियामकत्वात् देशकालरसविभागवैचित्र्यस्यैव तत्र नियामकत्वात् । अस्तु वाऽध्यवसायवैचित्र्यनिबन्धनाद्देशादिवैचित्र्यादेकस्याः स्थितेरपि वैचित्र्यं, समयसमयमात्रापगमनेन प्रतिसमयमन्यथात्वप्रतिपच्या वाऽसंख्येयसमयात्मिकाया एकस्या अपि स्थितेर्वैचित्र्यम् , एकस्यापि वस्तुनः कथञ्चिद्विचित्राविचित्रत्वाभ्युपगमे स्याद्वादस्यैव शरणत्वात् । तदिदमुक्तं- 'असंखलोगखपएसतुल्लया होणमज्झिमुक्कोसा । ठिइबन्धज्झवसाया ठितीए विसेसा असंखिजा ॥१॥” इति कृतं प्रसङ्गेन ॥८७॥ __परंपरोवणिहित्तिपल्लासंखियभागं गंतुं दुगुणाणि जाव उक्कस्सा । नाणंतराणि अंगुलमूलच्छेयणमसंखतमो ॥८८॥
(चू०)-परंपरोवणिहियाए णाणावरणिजस्स जहणियाए ठितिबंधज्झवसाणट्ठाणेहिंतो पलिओवमस्स असंखेजइभागं गंतुणं दुगुणवड्डियाणि अज्झवसाणहाणाणि | ततो पुणो पलिओवमस्स असंखेजइभागं गंतूणं दुगुणशवड्डि । एवं दुगुणवड्डिता दुगुणवड्डिता जाव उक्कस्सिता ठितित्ति । एवं ठितिबंधज्झवसाणठाणंतरं असंखेजाणि
१ पञ्चसंग्रहे पञ्चमद्वारे गा० ५८ .
| ॥१८७॥