SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ A SAY |नावरणीयस्य जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोका काशप्रदेशप्रमाणाः । ते चान्यापेक्षया सर्वस्तोकाः । ततो द्वितीयस्थितौ विशेषाधिकाः, ततोऽपि तृतीयस्थितौ विशेषाधिकाः, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं सर्वेध्वपि कर्मसु वाच्यम् । 'आऊणमसंखगुणबुड्डी' - आयुषां जघन्यस्थितेरारभ्य प्रतिस्थितिबन्धमसंख्येयगुणवृद्धिर्वक्तव्या । तद्यथा आयुषो जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते च सर्वस्तोकाः, ततो द्वितीयस्थितौ असंख्येयगुणाः, ततोऽपि तृतीय स्थितावसंख्येयगुणाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः ॥ ८७ ॥ ( उ० ) - तदेवमुक्तमल्पबहुत्वम् । अथ स्थितिबन्धाध्यवसाय स्थानप्ररूपणा कर्त्तव्या । तत्र त्रीण्यनुयोगद्वाराणि स्थितिसमुदाहारः प्रकृतिसमुदाहारो जीवसमुदाहारश्च । समुदाहारः प्रतिपादनम् । तत्र स्थितिसमुदाहारेऽपि त्रीण्यनुयोगद्वाराणि - प्रगणना, अनुकृष्टिः, तीव्रमन्दता च । तत्र प्रगणनाप्ररूपणायाह- परत उत्कृष्टस्थितेश्वरमसमयमभिव्याप्य यावन्तः समयास्तावन्ति स्थितिस्थानानि जघन्यस्थितिसहितानि प्रत्येकं भवन्ति । एकैकस्मिथ स्थितिस्थाने बध्यमाने तद्बन्धहेतुभृताः काषायिका अध्यवसाया नानाजीवापेक्षयाऽसंख्यलोकाकाशप्रदेशप्रमाणा भवन्ति । अत्र च द्वेधा प्ररूपणाऽनन्तरोपनिधया, परम्परोपनिधया च । तत्रानन्तरोपनिधया प्ररूपणामाह'हस्सा विसेसबुड्डी' । आयुर्वर्जानां कर्मणां ह्रस्वात् जघन्यात्स्थितिबन्धात् परतो द्वितीयादिषु स्थितिबन्धस्थानेषु विशेषवृद्धिः - विशेषाधिका वृद्धिरवसेया । तथाहि - ज्ञानावरणस्य जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणाः, ते चान्यापेक्षया सर्वस्तोकाः, ततो द्वितीयस्थितौ विशेषाधिकाः, ततोऽपि तृतीयस्थितौ विशेषाधिकाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थि तिः । एवं सर्वेष्वपि कर्मसु वाच्यम् । 'आऊणमसंखगुणबुड्डी' - आयुषां जघन्य स्थितेरारभ्य प्रतिस्थितिबन्धमसंख्येयगुणवृद्धिर्वक्तव्या ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy