SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१८५॥ पणा. OGSACRORDSDMC प्रमाणत्वात् । तत एकस्मिन् द्विगुणहान्योरन्तरे यानि निषेकस्थितिस्थानानि तान्यसंख्येयगुणानि, तेषामसंख्येयपल्योपमवर्गमूलपरि-18 माणत्वात् । तेभ्योऽर्थेनकण्डकमसंख्येयगुणम् । तस्माजघन्यःस्थितिबन्धोऽसंख्येयगुणः। संजिपंचेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिस्थितिबन्धमन्तःसागरोपमकोटिकोटीप्रमाणमेव कुर्वन्तीति । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि । तत्र ज्ञानावरणदर्शनावरण बन्धप्ररूVा वेदनीयान्तरायाणामेकोनत्रिंशद्गुणानि समधिकानि। मिथ्यात्वमोहनीयस्यकोनसप्ततिगुणानि समधिकानि । नामगोत्रयोश्चकोनविंशतिगुणानि समधिकानि । तेभ्य उत्कृष्टा स्थितिर्विशेषाधिका, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशात् । तथा संज्ञिपंचेन्द्रियेष्वसंज्ञिपंचेन्द्रियेषु वा पर्याप्तेपु प्रत्येकमायुषो जघन्याबाधा सर्वस्तोका। ततो जघन्यः स्थितिवन्धः संख्येयगुणः, स च क्षुल्लकभवरूपः। ततोऽबाधास्थानानि संख्येयगुणानि, जघन्याबाधारहितः पूर्वकोटीत्रिभाग इति कृत्वा । ततोऽप्युत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमप्रथमवर्गमूलासंख्येयभागगतसमयप्रमाणत्वात् । तेभ्योऽप्येकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि प्रागुक्तयुक्तेः। ततः स्थितिबन्धस्थानान्यसंख्येयगुणानि । तेभ्योऽप्युत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशात । एतत्संज्ञिपञ्चेन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु | |च पर्याप्तेष्वायुषोऽष्टभेदमल्पबहुत्वम् । ___ तथा पञ्चेन्द्रियेषु संज्ञिष्वसंशिष्वपर्याप्तेषु चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियबादरसूक्ष्मैकेन्द्रियेषु च पर्याप्तापर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जघन्याबाधा १ । ततो जघन्यस्थितिबन्धः संख्येयगुणः २। स च क्षुल्लकभवरूपः । ततोऽबाधास्थानानि संख्येयगुणानि ३। ततो ॥१८५॥ ऽप्युत्कृष्टाबाधा विशेषाधिका ४ । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि, जघन्यस्थितिन्यूनपूर्वकोटिप्रमाणत्वात् ५। तत उत्कृष्ट DOOGO
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy