________________
15
बन्धस्थानान्यसंख्येयगुणानि, पल्योपमासंख्येयभागगतसमयप्रमाणत्वात् । ततोऽपि जघन्यस्थितिबन्धोऽसंख्येयगुणः । ततोऽप्युत्कृष्टस्थितिबन्धो विशेषाधिकः, पल्योपमासंख्येयभागेनाभ्यधिकत्वादिति ॥ ८६ ॥
(उ० ) -- के ते? इति चेत्ताने वाह-- बन्धाबाधयोरुत्कृष्टेतरे - उत्कृष्टः स्थितिबन्धो, जघन्यः स्थितिबन्धः, उत्कृष्टाऽबाधा, जघन्याऽबाधा चेत्यर्थः । कण्डकस्थानानि, अबाधास्थानानि, स्थितिबन्धस्थानानि च । 'एकनांतराणि' त्ति एकं द्विगुणहान्योरन्तरं नानारूपाणि चान्तराणि द्विगुणहानिस्थानरूपाणि । 'अत्थेण कंडं च' त्ति - जघन्याऽबाधाहीनयोत्कृष्टाबावया जघन्यस्थितिहीनाया उत्कृष्टस्थितेर्भागे हृते सति यावान् भागो लभ्यते तावानर्थेनकण्डक मित्युच्यते, अर्थेन यथोक्तलक्षणेन कण्डकमित्य लुक्समासाश्रयणात् इत्याम्नायिका व्याचक्षते । चः समुच्चये । पञ्चसंग्रहे पुनरेतस्य स्थानेऽबाधाकण्डकस्थानानीत्युक्तम् । तत्र चैवं मूलटीकाव्याख्या - अबाहाच कण्डकानि चाबाधाकण्डकं समाहारो द्वन्द्वः, तस्य स्थानान्यबाधाकण्डकस्थानानि, तयोर्द्वयोरपि स्थानसंख्येत्यर्थः ।
एतेषां दशानां स्थानानामल्पबहुत्वमुच्यते - तत्र संज्ञिपञ्चेन्द्रियेषु पर्याप्तेष्वपर्याप्तेषु वा बन्धकेष्वायुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याबाधा, आन्तमौहूर्त्तिकत्वात् । ततोऽबाधास्थानानि कण्डकस्थानानि चासंख्येयगुणानि, परस्परं तु तानि तुल्यानि, यतो जघन्याबाधात उत्कृष्टाबाधा चरमसमयमभिव्याप्य यावन्तः समयास्तावन्त्यबाधास्थानानि भवन्ति । तथाहि जघन्याबाधा एकमबाधास्थानं, सैव समयाधिका द्वितीयं द्विसमयाधिका तृतीयम् एवं यावदुत्कृष्टा बाधाचरमसमयस्तावद्वाच्य मिति । एतावन्त्येव च कण्डकस्थानानि, उत्कृष्टाबाधायाः समयसमयहानौ उत्कृष्टस्थितेः कण्डककण्डकहा नेरुक्तत्वात् । तेभ्य उत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो दलिकनिषेकविधौ द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमप्रथमवर्गमूला संख्येय भागगतसमय
K