________________
स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशादिति ६ । पभेदमल्पबहुत्वम् । __ तथाऽसंनिपश्चेन्द्रियचतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियमूक्ष्मबादरे केन्द्रियेषु पर्याप्तापर्याप्तेष्वायुर्वर्जानां सप्तानां कर्मणां प्रत्येकमवाधास्थानानि कण्डकानि च स्तोकानि, परस्परं च तुल्यानि, आवलिकाऽसंख्येयभागगतसमयप्रमाणत्वात् । ततो जघन्याबाधा संख्येयगुणा, अन्तमुहूर्तप्रमाणत्वात् । ततोप्युत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानिस्थानान्यसंख्येयगुणानि । नत एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । ततोऽर्थेनकण्डकमसंख्येयगुणम् । ततोऽपि स्थितिबन्धस्थानान्य-12 |संख्येयगुणानि, एकेन्द्रियान शेषजीवांथाश्रित्य यथाक्रमं तेषां पल्योपमासंख्येयसंख्येयभागगतसमयप्रमाणत्वात् । ततोऽपि जघन्यः | स्थितिवन्धोऽसंख्येयगुणः। ततोऽप्युत्कृष्टस्थितिवन्धो विशेषाधिकः, एकेन्द्रियाणां पल्योपमासंख्येयभागेन शेपजीवानां पल्योपमसंख्येयभागेनाभ्यधिकत्वादिति ॥८६॥ _इयाणि ठितिबंधज्झवसाणहाणपरूवणा भण्णइ-तत्थ तिणि अणुओगद्दाराणि । तं जहा-ठितिसमुदाहारो. पगइसमुदाहारो, जीवसमुदाहारो। ठितिसमुदाहारोत्ति-तत्थ इमाणि तिषिण अणुओगदाराणि । तं जहा-पगणणा, अणुकड्डी, तिव्वमंदता । तत्थ पगणणाएठिइबंधे ठिइबंधे अज्झवसाणाणसंखिया लोगा । हस्सा विसेसवुड्डी आऊणमसंखगुणवुड्डी ॥८॥
(चू०)–णाणावरणियस्स जहण्णिगाए ठितीए ठितीबंधज्झवसाणाणि असंखेजलोगागासपदेसमेत्ताणि । |बितियाए ठितिए [जाव असंखेजलोगागासपदेसमेत्ताणि । ततियाए ठितिए असंखेजलोगागासपदेसमेत्ताणि ।