________________
SACRORSCGSONGS
द्विसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । यदि पुनर्वाभ्यां हीनोत्कृष्टाऽबाधा भवेत्ततो नियमात्पल्योपमासंख्येयभागलक्षणकण्डकद्वयहीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । एवं यतिभिः समयैरूनाऽबाधा भवति ततिभिरेव कण्डकैः पल्योपमासंख्येयमागलक्षणैरूना स्थितिद्रष्टव्या । यावदेकत्र जघन्या बाधा भवति, अन्यत्र च जघन्या स्थितिः । तदेवमबाधागतसमयसमयहान्या स्थितेः कण्डकहानिप्ररूपणा कृता। सम्प्रत्यल्पबहुत्वप्ररूपणार्थमाह-'अप्पबहुमेसि' एपां| वक्ष्यमाणानामल्पबहुत्वं वक्तव्यम् ।। ८५ ॥ ___ (उ०)-कृता निषेकप्ररूपणा । सम्प्रत्यवाधाकण्डकं ग्ररूपयन्नाह-आयुषि चत्वार्यपि मुक्त्वा शेषाणां सवषामपि कर्मणामबाधाहानौ समये समये पल्योपमासंख्येयलक्षणं कण्डकं कुरु, उत्कृष्टस्थितेः सकाशाद्धीनमिति शेषः । इदमुक्तं भवति-उत्कृष्टायामबाधायां वर्तमानो जीव उत्कृष्टां स्थिति बध्नाति परिपूर्णामेकसमयहीनां वा । एकसमयहीनायां तूत्कृष्टाबाधायां नियमात्पल्योपमासंख्येयभागहीना-1 मेवोत्कृष्टां स्थिति बध्नाति, तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा। द्विसमयहीनायां तूत्कृष्टाबाधायां नियमाकण्डकद्वयहीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । एवं यावद्भिः समयैरू-12 नाबाधा भवति तावद्भिरेव कण्डकैः स्थितिन्युनता द्रष्टव्या यावज्जघन्याऽबाधा जघन्या च स्थितिरायाति । तदेवमबाधागतसमयहान्या स्थितेः कण्डकहानिः प्ररूपिता । अथाल्पबहुत्वं प्ररूपयन्नाह-'अप्पबहुमेसि'-एषां वक्ष्यमाणानामल्पवहुत्वं वक्तव्यम् ॥८५।। ___ कयरेसिं? भण्णइबंधाबाहाणक्कसियरं कण्डकअबाहबंधाणं । ठाणाणि एक्कनाणतराण अत्थेण कंडं च ॥ ८६ ।।
FROOPERSISEDI
CICG