________________
DODES
| हानयः संभवन्तु, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमसमयमात्रत्वात् कथमेतावत्यो हानयः संभवन्तीति ? उच्यते-इहासंख्येयतमो
भागोऽसंख्येयभेदात्मकः, असंख्यातस्यासंख्यातभेदभिन्नत्वात् । ततः पल्योपमप्रथमवर्गमूलस्यासंख्येयतमो भाग आयुष्यतीवाल्पतरो | गृह्यते इत्यविरोधः। तथा सर्वाणि द्विगुणहानिस्थानानि स्तोकानि, एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानानि असंख्येयगुणानि इति ।।
(उ०)- कृतानन्तरोपनिधाप्ररूपणा । अथ परम्परोपनिधाप्ररूपणायाह-अबाधाकालादूर्ध्व प्रथमस्थितौ यन्निषिक्तं कर्मदलिक तदपेक्षया द्वितीयादिस्थितिषु समयसमयमानासु विशेषहीनं विशेषहीन विधीयमानं दलिकं पल्योपमासंख्येयभागं गत्वा-तावन्मात्रा | स्थितिष्वतिक्रान्तास्वित्यर्थः, द्विगुणोनं भरत्यधं भवतीत्यर्थः । तत ऊवं भूयोऽपि विशेषहीनं दलिकमारच्यमानं पल्योपमासंख्येय- 16 भागमात्रासु स्थितिष्यतिक्रान्तास्वधं भवति । एवमर्धाधहान्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः-स्थितेश्वरमसमय इत्यर्थः । कियन्ति पुनरेवं द्विगुणहानिस्थानानि भवन्ति? इत्याह-'नाणंतराणि इत्यादि । नानाप्रकाराणि यान्यन्तराणि-अन्तरा जातानि द्विगुणहानिस्थानानि तान्युत्कृष्टस्थितिबन्धे पल्योपमस्य सम्बन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्पमाणानि भवन्ति । ननु मिथ्या| त्वस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटाकोटीप्रमाणत्वादेतावत्यो हानय उत्पद्यन्तां, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमप्रमाणत्वा
कथमेतावत्यो हानयो युज्यन्ते ? इति चेत्, सत्यम्, असंख्येयतमो भाग इहासंख्येय भेदात्मकोऽसंख्यातस्यासंख्यातभेदभिन्नत्वात् । ततः | | पल्योपमप्रथमवर्गमूलस्यासंख्येयतमो भाग आयुष्यतीवाल्पतरो गृह्यत इति न दोषः । तथा सर्वाणि द्विगुणहानिस्थानानि स्तोकानि, | 2 एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थनान्यसंख्येयगुणानि ॥८४॥
SHIONAGSPOONAROG:2