________________
कर्मप्रकृतिः
स्थितिबन्धप्ररूपणा.
॥१८॥
दुगुणहीणं पदेसग्गं । एवं दुगुणहीणं दुगुणहीणं जाव अप्पप्पणोक्कस्सिगा ठिती। एगं पदेसगुणहाणिठाणंतरं असंखेज्जाणि पलितोवमवग्गमूलाणि । णाणापदेसगुणहाणिठाणंतराणि पलिओवमवग्गमूलस्स असंखेज्जइभागो।णाणापदेसगुणहाणिठाणंतराणि थोवाणि, एगं पदेसगुणहाणिहाणंतरं असंखेज्जगुणं । एवं णिसेगपरूवणा समत्ता ॥८४॥ | (मलय०)-कृताऽनन्तरोपनिधाप्ररूपणा, सम्प्रति परम्परोपनिधाप्ररूपणार्थमाह-'पल्लति । अबाधाकालाद्ध प्रथमस्थितौ यन्नि| षिक्तं कर्मदलिकं तदपेक्षया द्वितीयादिषु स्थितिषु समयसमयरूपासु विशेषहीनं विशेषहीनतरं दलिकमारच्यमाणं पल्योपमासंख्येयभा-| गमात्रासु स्थितिष्वतिक्रान्तासु दलिकं द्विगुणोनं भवति, अधं भवतीत्यर्थः । ततः पुनरप्यत ऊर्द्धमेतदपेक्षया विशेषहीनं विशेषहीनतरं | दलिकमारच्यमानं पल्योपमासंख्येयभागमात्रासु स्थितिष्वतिक्रान्तासु दलिकं द्विगुणोनं भवति । ततः पुनरप्यत ऊर्ध्वमेतदपेक्षया विशे| षहीनं विशेषहीनतरं दलिकमारच्यमाणं पल्योपमासंख्येयभागमात्रप्रमाणासु स्थितिष्वतिक्रान्तासु अधं भवति । एवमर्धाधहान्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः-स्थितेश्चरमसमय इत्यर्थः। कियन्ति पुनरेवं द्विगुणहानिस्थानानि भवन्ति ? इत्येतन्निरूपणार्थमाह-'नाणंतराणि'इत्यादि । नानाप्रकाराणि यान्यन्तराणि-अन्तरान्तरा द्विगुणहानिस्थानानि भवन्ति, तान्युत्कृष्टस्थितिबन्धे पल्योपमस्य संबन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । उक्तं च-पलिओवमस्स मूला असंखभागम्मि जत्तिया समया। तावइया हाणीओ ठिइबंधुक्कोसए नेया ॥" ननु मिथ्यात्वमोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वादेतावत्यो
१ पञ्चसंग्रहस्य पञ्चमद्वारे गा० ५२
॥१८॥