________________
पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टस्थितिबन्धात्संज्ञिपञ्चेन्द्रियस्स पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽपि तस्यैव संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्योत्कृष्टः स्थितिबन्ध: संख्येयगुणः । 'अभितरओ उ कोडिकोडीए' त्ति-संयतोत्कृष्ट स्थितिबन्धादारभ्य यावदपर्याप्तसंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्ध एप सर्वोऽपि साग|रोपमकोटी कोटया अभ्यन्तर एव परिभाषितव्यः । एकेन्द्रियादीनां तु सर्वजघन्य सर्वोत्कृष्टस्थितिबन्धमानं प्रागुक्तमेव । ओधेन सामान्येनोत्कृष्टो यः स्थितिबन्ध उक्तः स संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्यैव परिशिष्यते ॥८०-८१-८२ ।।
दाणिं णिसेगपरूवणा भरण
मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । एत्तो विसेसहीणं जावुक्कोसं नि सव्वासं ॥ ८३ ॥
( ० ) -- एगिंदिय जाव चउरिंदियअसण्णिपंचेंदियसण्णिपंचेंदियाणं पज्जत्तापज्जत्ताणं 'सगमबाह'तिअप्पप्पणी 'बहुतरं' - पाउग्गं अबाहं मोत्तृण जं पढमसमए पदेसग्गं णिसिचति ते बहुयं । ततो समउत्तराए ठितीए बिसेसहीणं । विसमउत्तराए ठितीए विसेसहीणं । ततो समउत्तराए ठितीए विसेसहीणं । 'एत्तो विसेस हीणं जावुक्कस्सं ति' एवं विसेसहीणं विसेसहीणं जावुक्कस्साए ठितीए-विसेसहीणं ताव णेयव्वं । 'सव्वासिं'ति-सव्वासि पगतीणं जाव अप्पप्पणो उक्कस्स ठिती ताव णेयव्वं अनंतरावणिहाए ॥८३॥
(मलय ० ) - तदेवं कृता स्थितिस्थानप्ररूपणा । सम्प्रति निषेकप्ररूपणावसरः । तत्र च द्वे अनुयोगद्वारे - अनन्तरोपनिधा, परम्परोपनिधा च । तत्रानन्तरो पनिधाप्ररूपणार्थमाह - ' मोत्तृण' त्ति | सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमात्मीयमबाधाकालं मुक्त्वा