________________
220
|पमासंख्येयभागही नम्, कषायमोहनीयस्य चतुरः सागरोपमस्य सप्तभागान् पल्योपमासंख्येय भागहीनान्, नोकषायाणां वैक्रियपट्काहारद्वितीर्थकर वर्जितानां शेषनामप्रकृतीनां गोत्रप्रकृतिद्वयस्य च द्वौ सप्तभागौ पल्योपमासंख्येय भागहीनाविति । स एव जघन्य स्थितिबन्ध ऊनेन - पल्योपमासंख्येयभागलक्षणेन संयुतः सन्नुत्कृष्टः स्थितिबन्ध एकेन्द्रियाणां वेदितव्यः । अथ विकलेन्द्रियाणामाह- 'पणवीस' इत्यादि । एकेन्द्रियसत्क उत्कृष्टे स्थितिबन्धे पञ्चविंशत्यादिना गुणकारः कार्यः, तथागुणितश्च स 'क्रमश:'- क्रमेण विकलानां द्वित्रिचतुरिन्द्रियलक्षणानां विकलेन्द्रियाणाम्-असंज्ञिनाम्-असंज्ञिपञ्चेन्द्रियाणां च ज्येष्ठः स्थितिबन्ध इति प्राक्तनमानुषज्यते । तथाहि एकेन्द्रि याणामुत्कृष्टस्थितिबन्धः पञ्चविंशत्या गुणितो द्वीन्द्रियाणामुत्कृष्टः, स एवैकेन्द्रियोत्कृष्टः स्थितिबन्धः पञ्चाशता गुणितस्त्रीन्द्रियाणामुत्कृष्टः शतेन गुणितश्चतुरिन्द्रियाणां सहस्रेण गुणितोऽसंज्ञिपश्चेन्द्रियाणामिति । एष एव द्वीन्द्रियादीनामुत्कृष्टः स्थितिबन्धः 'पल्लसंखेजभागह' त्ति - पल्यसंख्येयभागं जहातीति पल्यसंख्येय भागहा - पल्योपमसंख्येयभागहीन इत्यर्थः, इतरो जघन्यस्थितिबन्धः । पञ्चसंग्रहे तु या जघन्यस्थितिरेकेन्द्रियाणां सा पल्योपमासंख्येयभागाभ्यधिकीकृता पञ्चविंशत्यादिना च गुणिता द्वीन्द्रियादीनामुत्कृष्टा, यथास्थितैव चैकेन्द्रियजघन्यस्थितिः पञ्चविंशत्यादिना गुणिता द्वीन्द्रियादीनां जघन्येत्युक्तमस्ति । तत्त्वं तु केवलिनो विदन्ति ।
सम्प्रति सर्वेषामपि जघन्योत्कृष्टस्थितिबन्धानामल्पबहुत्वमभिधीयते तत्र यतेः सूक्ष्मसंपरायस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, आन्तमौहूर्त्तिकत्वात् । ततो बादरपर्याप्तस्य जघन्यः स्थितिबन्धोऽसंख्येयगुणः । ततः सूक्ष्मपर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्य जघन्यस्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तसूक्ष्मस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैवापर्याप्तस्य सूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि सूक्ष्मपर्या