SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ स्थिति उत्कृष्टश्च स्थितिबन्ध उक्त एव । ततो 'देशयतिद्विके देशविरतद्विके जघन्योत्कृष्टस्थितिबन्धलक्षणे, तथा 'सम्यक्त्वचतुष्के -अविरतकर्मप्रकृतिः सम्यग्दृष्टौ पर्याप्तेऽपर्याप्ते च प्रत्येक जघन्योत्कृष्टस्थितिबन्धके स्थितिबन्धो यथोत्सरं संख्येयगुणो वक्तव्यः । तद्यथा-संयतोत्कृष्टस्थितिबन्धात् देशविरतस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततो देशविरतस्यैवोत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततः पर्याप्ताविरतस्य बन्धप्ररू॥१७६॥ सम्यग्दृष्टेर्जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽप्यपर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यपर्याप्ता पणा. विरतसम्यग्दृष्टरुत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततोऽपि पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टः स्थितिबन्धः संख्येयगुणः॥ 'सनि' ति-अविरतसम्यग्दृष्टेः पर्याप्तस्य सत्कादत्कृष्टस्थितिबन्धात संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिवन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य संज्ञिपञ्चेन्द्रियस्योत्कृष्टः | स्थितिबन्धः संख्येयगुणः । 'अम्भितरओ य कोडिकोडीए'-त्ति संयतस्योत्कृष्टात स्थितिबन्धादारभ्य यावदपर्याप्तसंज्ञिपञ्चेन्द्रियस्यो१६ त्कृष्टः स्थितिबन्ध एव सर्वोऽपि सागरोपमकोटीकोटथा अभ्यन्तर एव द्रष्टव्यः। एकेन्द्रियादीनां तु सर्वजघन्यसर्वोत्कृष्टस्थितिबन्ध-12 परिमाणं प्रागेव प्रत्येकमुक्तम् । संज्ञिपञ्चेन्द्रियपर्याप्तकस्य पुनरुत्कृष्टः स्थितिबन्धो य एव प्रागोपेन-सामान्येनोक्त उत्कृष्टः स्थितिबन्धः स एव वेदितव्यः ॥ ८०-८१-८२॥ श्रा (उ०)-अथैकेन्द्रियादीनां जघन्योत्कृष्टस्थितिबन्धप्रतिपादनायाह-'एषः'-अनन्तरमेवोक्तः सर्वासां प्रकृतीनां वैक्रियषट्काहारकती र्थकरवर्जितानां स्थितिबन्धो 'डहरो'-जघन्य एकेन्द्रियाणां द्रष्टव्यः । तथाहि-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां सागरोपमस्य || ॥१७६।। त्रीन् सप्तभागान् पल्योपमासंख्येयभागहीनान् जघन्यां स्थितिमेकेन्द्रिया बध्नन्ति, न न्यूनाम् । एवं मिथ्यात्वस्य सागरोपममेकं पल्यो-30 EDIOGGC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy