SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टः स्थितिबन्धः पल्योपमसंख्येयभागहीनः सन् इतरो-जघन्यः स्थितिबन्धो वेदितव्यः । सम्प्रति सर्वेषामपि जघन्योत्कृष्ट स्थितिबन्धानामल्पबहुत्वमभिधीयते-तत्र सूक्ष्मसंपरायस्य जघन्यस्थितिबन्धः सर्वम्तोकः । ततो चादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसंख्येयगुणः । ततोऽपि मूक्ष्मपर्याप्तकस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्त| बादरस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तसूक्ष्मस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि अपर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि सूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषा|धिकः । ततोऽपि बादरपर्याप्तस्योत्कृष्ट स्थितिबन्धो विशेषाधिकः। ततो द्वीन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततस्तम्यवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैव द्वीन्द्रियस्यापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि द्वीन्द्रि यपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि त्रीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः (विशेषाधिकः) । ततोऽपि * तस्यैव त्रीन्द्रियस्यापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि त्रीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः। ततोऽपि | पर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यः स्थितिबन्धः संख्येयगुणः (विशेषाधिकः)। १ ततोऽप्यपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽप्यपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः ततो ऽपि पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैव पर्याप्तस्योकृष्टः | स्थितिवन्धो विशेषाधिकः । ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः। 'विरए'-इत्यादि । 'विरते'-संयते, अत्र च जघन्य
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy