SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१७५॥ पणा. SINGEOHD2ORSMODI र्थकरवर्जितानामेषोऽनन्तरोक्तो-“वग्गुक्कोसठिईणं मिच्छत्तुक्कोसगेण जं लद्धं पलिओवमासंखेजभागेणूणो" इत्वेवंलक्षणः स्थितिबन्धो 'डहरों-जघन्य एकेन्द्रियाणां द्रष्टव्यः। तथाहि-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीप्रमाणा, स्थिति| तस्या मिथ्यात्वस्थित्योत्कृष्टया सप्ततिसागरोपमकोटीप्रमाणया भागे हृते सति लब्धाः सागरोपमस्य त्रयः सप्तभागास्ते च पल्योपमा | बन्धप्ररूसंख्येयभागहीनाः क्रियन्ते, एतावत्प्रमाणां जघन्यां स्थिति ज्ञानावरणपश्चकदर्शनावरणनवकासातवेदनीयान्तरायपश्चकानामेकेन्द्रिया बध्नन्ति, न न्यूनां । एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपमं पल्योपमासंख्येयभागहीनम् । कषायमोहनीयस्य चतुरः सागरो-16 | पमस्य सप्तभागान् पल्योपमासंख्येयभागहीनान् । नोकपायाणां तथा वैक्रियषद्काहारकद्विकतीर्थकरवर्जितानां शेषनामप्रकृतीनां गोत्रप्रकृतिद्वयस्य च द्वौ सागरोपमस्य सप्तभागी पल्योपमासंख्येयभागहीनावेकेन्द्रिया बध्नन्ति । 'ऊगसंजुओ जेठ'त्ति-स एव जघन्यः स्थितिबन्ध ऊनेन पल्योपमासंख्येयभागलक्षणेन संयुतः सन्नुत्कृष्टस्थितिबन्ध एकेन्द्रियाणां वेदितव्यः । तद्यथा-ज्ञानावरणपञ्चकदशनावरगनवकासातवेदनीयान्तरायपश्चकानां त्रयः सागरोपमस्य सप्तभागाः परिपूर्णा उत्कृष्टः स्थितिबन्धः । एवं सर्वत्रापि भावनीयम् । उक्त एकेन्द्रियाणां जघन्योत्कृष्टः स्थितिबन्धः । सम्प्रति विकलेन्द्रियाणामाह-'पणवीस' इत्यादि । एकेन्द्रियाणां सत्क उत्कृष्टः स्थितिबन्धः पञ्चविंशत्यादिना गुणकारेण गुणितः सन् 'क्रमशः'-क्रमेण 'विकलानां'-विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियलक्षणानां 'असंज्ञिनां' च-असंज्ञिपञ्चेन्द्रियाणां चोत्कृष्टः स्थितिबन्धो वेदितव्यः । तद्यथा-एकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पञ्चविंशत्या गुणितो द्वीन्द्रियाणामुत्कृष्टः स्थितिबन्धो भवति । स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पश्चाशता गुणितस्वीन्द्रियाणामुत्कृष्टः स्थितिवन्धः। शतेन ॥१७५॥ गुणितश्चतुरिन्द्रियाणाम् । सहस्रेण गुणितोऽसंज्ञिपञ्चेन्द्रियाणामिति । 'पल्लसंखेज्जभागहा इयरों-स एव द्वीन्द्रियादीनामात्मीय आत्मीय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy