SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ तस्या मिथ्यात्वस्थित्या भागहारे शून्यस्य शून्येन पातने छेद्यच्छेदकराश्योश्चतुर्दशकेनापवर्त्तने लब्ध एकः सागरोपमस्य पञ्चभागः, कर्मप्रकृतिः इयती तयोर्जघन्या स्थितिः-१५। चतुर्थयोः संस्थानसंहननयोः षोडशार्णवकोटाकोटीमानोत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या स्थिति बन्धप्ररू॥१७३॥ | भागहरणविधौ शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योरर्द्धनापवर्त्तने लब्धाः सागरोपमस्याष्टौ पञ्चत्रिंशद्भागाः-८/३५, इयती तयो पणा. जघन्या स्थितिः । पञ्चमसंस्थानसंहननयोरष्टादशान्धिकोटीकोटथ उत्कृष्टा स्थितिः, तस्यां मिथ्यात्वस्थित्या भाज्यमानायां शून्यस्य शून्येन पातने छेद्यच्छेदकराश्योरर्द्धनापवर्त्तने लब्धा नव पञ्चत्रिंशद्भागाः-९/३५, इयती तयोर्जघन्या स्थितिः । शेषाणां प्रसबादरपयप्तिप्रत्येकागुरुलघुपराघातोपघातोच्छ्वासास्थिराशुभदुर्भगदुःस्वरानादेयायश कीर्तितिर्यद्विकौदारिकद्विकहारिद्रलोहितनीलकृष्णवर्णदुरभिगन्धकषायाम्लकटुतिक्तरसगुरुकर्कशरूक्षशीतस्पर्शपश्चन्द्रियजात्येकेन्द्रियजातिनिर्माणातपोद्योताप्रशस्तविहायोगतिचरमसंस्थानसंहननतैजसकार्मणनीचैर्गोत्रारतिशोकभयजुगुप्सानपुंसकवेदस्थावररूपाणामष्टचत्वारिंशत्प्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ-२/७-जघन्या | | स्थितिः । यद्यपि हारिद्रलोहितादीनामुत्कृष्टस्थितिः सार्द्धद्वादशाब्धिकोटाकोट्यादिमानेत्यधिकृतभागहारविधिना समधिकषट्सागरोपम-| दीपञ्चत्रिंशद्भागादिप्रमाणा जघन्यस्थितिलभ्यते, तथापि चिरंतनशास्त्रेषु तेषां द्वौ सप्तभागौ जघन्यस्थितितया दृष्टाविति तावेवोक्तौ । | इदं च जघन्यस्थितिपरिमाणं पञ्चसंग्रहोक्तं मतान्तरमिति द्रष्टव्यम् । परमेतज्जीवाभिगमाद्यनुपाति दृश्यते । तथा च स्त्रीवेदमधिकृत्य Vा तत्र सूत्रम्-"इस्थिवेदस्स ण भंते केवइयं कालं बन्धठिई पन्नत्ता ? गोयमा ! जहन्नेणं सागरोवमस्स दिवट्टो सत्तभागो पलिओवमस्स | असंखेजइ भागेण ऊणओ" इत्यादि ॥७९॥ 15॥१७॥ इदाणी एगिंदीयातीणं जहणुक्कस्स ठितीपरिमाणं भण्णइ
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy