________________
पमासंख्येयभागहीनौ जघन्या स्थितिरिति ग्रन्थान्तराद्रष्टव्यं यतस्तस्य जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रिया एव ने चैतावतीमेव जघन्यां स्थितिं बध्नन्तीति । पञ्चसंग्रहे तु वर्गोत्कृष्टस्थितिर्विभजनीयतया नाभिप्रेता, किन्तु "सेसाणुकोसाओ मिच्छनठईइ जं लद्धं ॥४८॥ इतिग्रन्थेन स्वस्वोत्कृष्टस्थितेर्मिथ्यात्वोत्कृष्टस्थित्या भागे हृते यल्लभ्यते तदेव जघन्यस्थितिपरिमाणमुक्तम् । तत्र निद्रापञ्चकस्यासा तवेदनीयस्य च प्रत्येकमुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटाकोटिरिति तस्या मिथ्यात्वोत्कृष्टस्थित्या भागे हियमाणे शून्यं शून्येन पातयेदिति वचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः, -३ ७ इयती निद्रापञ्चका सातवेदनीययोर्जघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्तभागाः पूर्ण सागरोपममित्यर्थः । आद्यद्वादशकपायाणां चत्वारः सप्तभागाः । सूक्ष्मत्रिकस्य विकलत्रिकस्य चोत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोटयः, तस्या मिथ्यात्व स्थित्या भागे द्रियमाणे शून्यं शून्येन पात्यते, ततश्छेद्यच्छेद कराश्योर नापवर्त्तनातो लब्धाः सागरोपमस्य नव पञ्चत्रिंशद्भागाः, इयती सूक्ष्मत्रिकविकलत्रिकयोर्जघन्या स्थितिः - ९ / ३५ । तथा स्त्रीवेद मनुष्य द्विकयोरुत्कृष्टस्थितिः पञ्चदशसागरोपमकोटाकोटिमाना, तस्या मिथ्यात्वस्थित्या भागे द्वियमाणे शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योः पञ्चभिरपवर्त्तने लब्धास्त्रयः सागरोपमस्य चतुर्दश भागाः, इयती स्त्रीवेदमनुष्य द्विकयोर्जघन्या स्थितिः-३/१४ । तथा स्थिरशुभसुभगसुखरादेयहास्य रति शुभविहायोगतिशुक्लवर्णसुरभिगन्धमधुररस मृदुलघुस्निग्धोष्णस्पर्शाद्य संस्थान संहनन लक्षणप्रकृतिसप्तदशकस्य दश सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागहरणे शून्यस्य शून्येन पातने लब्ध एकः सप्तभागः - १ ७, इयती स्थिरादीनां जघन्या स्थितिः । द्वितीययोः संस्थानसंहननयोर्द्वादशोद धिकोटिकोटय उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागहरणे शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योरर्खेनापवर्त्तने लब्धाः षद् सागरोपमस्य पञ्चत्रिंशद्भागाः-६ / ३५ । तृतीययोः संस्थान संहननयोरुत्कृष्टस्थितिश्चतुर्दशोद धिकोटीकोटयः,