SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पणा. परिमाणमवसेयम् । कुतः ? इत्याह-यद्यसात्कारणात्तेषां वैक्रियषद्कलक्षणानां कर्मणां असंक्षिपञ्चेन्द्रिया एव जघन्यस्थितेर्बन्धकाः । ते कर्मप्रकृतिःच जघन्यां स्थितिमेतावतीमेव बन्धन्ति, न न्यूनां, अन्तर्मुहूर्तमबाधा, अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति ॥७९॥ स्थिति(उ०)-उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररूपणामाह-इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्गः, दर्शनावरणीयप्र बन्धप्ररू॥१७२॥ | कृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवगः, कषाय| मोहनीयप्रकृतिसमुदायकषायमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नाम वर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः। एतेषां वर्गाणां या स्वीयस्वीयोत्कृष्टा स्थितिस्त्रिंशत्सा| गरोपमकोटिकोटयादिका, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीलक्षणया भागे हृते यल्लभ्यते पल्योपमाऽसंख्येयभागन्यूनस्तत्प्रमाण उक्तशेषाणां प्रकृतीनां जघन्यः स्थितिबन्धः । तथाहि-दर्शनावरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटाकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटाकोटया भागे हृते शून्यं शून्येन पातयेदिति वचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः ते पल्योपमासंख्येयभागहीना निद्रापञ्चकासातवेदनीययोर्जघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्तभागाः पल्योपमामंख्येयमागहीनाः । संज्वलनवर्जानां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येयभागहीनाः । तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रस्य च स्वस्वोत्कृष्टस्थितेविंशतिसागरोपमकोटीकोटया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटया भागे हृते | लन्धौ सागरोपमस्य द्वौ सप्तभागौ, तौ पल्योपमासंख्येयभागहीनौ, पुरुषवेदवर्जानामष्टानां नोकषायाणां देवद्विकनरकद्विकवैक्रियद्विका-12॥१७२॥ हारकद्विकयशःकीर्तितीर्थकरखर्जशेषनामप्रकृतीनां नीचैगोत्रस्य च जघन्या स्थितिः। वैक्रियषदकस्य द्वौ सप्तभागौ सहस्रगुणितौ पल्यो 2DACCdDrama
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy