SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ CROCHHOROCCESSONGS वर्गः, नामप्रकृतिसमुदायो नामवगः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवगः । एतेषां वर्गाणां याऽऽत्मीयात्मीयोत्कृष्टा स्थितिविंशत्सागरोपमकोटीकोट्यादिलक्षणा तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीलक्षणया भागे हृते सति यल्लभ्यते तत्पल्योपमासंख्येयभागन्यूनं सदुक्तशेषाणां प्रकृतीनां जघन्यस्थितेः परिमाणमवसेयम् । तथाहि-दर्शनावरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटिकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोषमकोटीकोटीप्रमाणया भागे हृते सति 'शून्यं शून्येन पातयेदि' तिवचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः, ते पल्योपमासंख्येयभागहीना निद्रापञ्चकासातवेदनीययोजघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्त भागाः पल्योपमासंख्येयभागहीनाः। संचलनवर्जानां द्वादशकपायाणां चत्वारः | सप्तभागाः पल्योपमासंख्येयभागहीनाः । तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रस्य च स्वस्वोत्कृष्टायाः स्थितेविंशतिसागरोपमकोटीकोटीप्रमाणया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यो लब्धौ द्वौ सागरोपमस्य सप्तभागौ तौ पल्योपमासंख्येयभागहीनौ पुरुषवेदवर्जानामष्टानां नोकषायाणां देवद्विकनरकद्विकवैक्रियद्विकाहारकद्विकयश-कीर्तितीर्थकरवर्जशेषनामप्रकृतीनां नीचर्गोत्रस्य च जघन्या स्थितिः। वैक्रियषद्कस्य-देवगतिदेवानुपूवींनरकगतिनरकानुपूर्व क्रियशरीरवैक्रियाङ्गोपाङ्गलक्ष| णस्य द्वौ सप्तभागौ सहस्रगुणितौ पल्योपमासंख्येयभागहीनौ जघन्या स्थितिः । यतस्तस्य वैक्रियषद्कस्य जघन्यस्थितिबन्धका असंज्ञिपश्चेन्द्रिया एव न त्वेकेन्द्रियादयः, ते च जघन्यां स्थितिमेतावतीमेव बन्धन्ति, न न्यूनाम् । तदुक्तं-" वेउविछ के तं सहस ताडियं जं | असन्निणो तेसिं । पलियासंखंसूर्ण ठिइ अबाहूणियनिसेगो ॥ १ ॥ अस्या अक्षरगमनिका-" घग्गुकोसठिईणं मिच्छत्तुक्कोसियाए” इत्य-3 नेन करणेन यल्लब्धं तत् सहस्रताडितं-गुणितं ततः पल्योपमस्या संख्येयेनांशेन भागेन न्युनं सत् वैक्रियपदके उक्तखरूपे जघन्यस्थितेः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy