SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ राष्ट्र द स्परं युज्यते ? अत्रोत्तरं - "जं बज्झइत्ति भणियं तत्थ निकाइजर ति नियमोऽयं । तदयंझफलं नियमा भयणा अनिकाइयावत्थे ||८०|| आह - यदि तीर्थंकरनानो जघन्यापि स्थितिरन्तः सागरोपमकोटीकोटीप्रमाणा तर्हि तात्रत्याः स्थितेस्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्गतावपि तीर्थकर नामसत्कर्मा जन्तुः कियन्तं कालं यावद्भवेत्, तथा च सत्यागमविरोधः आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यते । नैष दोषः, निकाचितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात् । उक्तं च- "जमिह निकाइयतित्थं तिरियभवे तं निसेहियं संतं । इयरम्मि नस्थि दोसो उब्वट्टणवट्टणासज्झे" || अस्या अक्षरगमनिका -इहास्मिन् प्रवचने यत्तीर्थकर नामकर्म निकाचितमवश्यवेद्यतया स्थापितं तदेव स्वरूपेण सद्विद्यमानं तिर्यग्गतौ निषिद्धं, इतरस्मिन् पुनरनिकाचि उद्वर्तनापर्वतनासाध्ये तिर्यग्भवे विद्यमानेऽपि न कश्विद्दोष इति । अत्रापि चान्तर्मुहूर्तमबाधा, ततः परं दलिकरचनायाः संभवादवश्यं प्रदेशोदय भवः ॥ ७८ ॥ (उ०)—सम्प्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाह-तिर्यगायुषो मनुष्यायुषश्च जघन्यस्थितिः क्षुल्लकभवः । तस्य किं मानम् ? इति | चेद्, उच्यते - आवलिकानां द्वे शते पट्पञ्चाशदधिके । तथैकस्मिन्मुहूर्ते घटिकाद्वयप्रमाणे सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि प्राणापानानां भवन्ति । क्षुल्लकभवग्रहणानि च पञ्चषष्टिसहस्राणि पञ्चशतानि पट्त्रिंशदधिकानि । ततः पञ्चषष्टिसहस्रपञ्चशतपशिल्लक्षणस्य मुहूर्त्तगतक्षुल्लकभवग्रहणराशेर्भाज्यस्य मुहूर्त्तगतप्राणापानराशिना त्रिसप्तत्यधिकसप्तत्रिंशच्छतप्रमाणेन भागे हृते सति यल्लभ्यते तदेकत्र प्राणापाने क्षुल्लकभवग्रहणप्रमाणं भवति । ते च सप्तदश भवाः । तथा यैर्भागहारांकमानैरंशैः क्षुल्लकभवः संपद्यते ते एकत्र प्राणापाने - टादशस्यापि पञ्चनवत्यधिकत्रयोदशशतप्रमाणा अंशा आयान्ति, अष्टसप्तत्यधिकत्रयोविंशतिशतानि चांशानां न पूर्यन्ते, तदेवं सम
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy