SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ D पणा. धिकाः सप्तदश क्षुल्लकभवा एकत्र प्राणापाने भवन्तीति प्रसिद्धम् । एतच्च क्षुल्लकभवग्रहणं सर्वेषामप्यौदारिकशरीरिणां भवतीति भगवकर्मप्रकृतिः त्यामपि सिद्धम् । यत्पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यत इत्युक्तं तन्मतान्तरमिति बहुश्रुताः संगिरन्ते । अत्रापि स्थिति॥१७॥ 'सबहिं हस्से' इतिवचनादन्तर्मुहर्तमवाधाऽबाधाकालहीनश्च कर्मदलिकनिषेकः । तथोपपातायुषां देवानां नारकाणां चायुषो जघन्या ||बन्धमरूघा स्थितिर्दशवर्षसहस्राणि, अन्तर्मुहूर्तमबाधाऽबाधाकालहीनश्च कर्मदलिकनिषेकः । तीर्थकराहारकयोर्जघन्यो स्थितिमाह-'उक्कोस' त्ति । | आहारकशरीराहारकाङ्गोपाङ्गतीर्थकरनाम्नां योत्कृष्टा स्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा प्रागुक्ता सा संख्येयगुणहीना जघन्या स्थितिर्भवति । साऽपि चान्तःसागरोपमकोटाकोटिप्रमाणैव । ननु तीर्थकरनाम तीर्थकरभवादक् तृतीयभवे बध्यते, तदुक्तं-“बज्झइ तं तु भगवओ तइयभवोसक्कहत्ताणं" तत्कथं जघन्यतोऽपि अन्तःसागरोपमकोटाकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? मैवं, 'वज्झइ तंतु' इत्यादेर्निकाचनापेक्षयैवोक्तत्वात् । तथा चास्यामेवाशङ्कायां विशेषणवत्यां पूज्यैः समाहितम्-"जं बज्झइ त्ति भणियं तत्थ णिकाइज त्ति णियमोऽयं । तदवंझफलं णियमा भयणा अणिकाइयावत्थे" ॥ आह-यदि तीर्थकरनाम्नो जघन्यापि स्थितिरन्तःसागरोपमकोटा कोटीप्रमाणा तदा तावत्याः स्थितेस्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात्तिर्यग्गतावपि तीर्थकरनामसत्ताप्रसङ्गः,तथा चागमविरोधः, KA आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यत इति । नैष दोषः, अत्यन्तनिकाचिततीर्थकरनामसत्ताया एवागमे प्रतिषे धात् । तथा चोक्तं विशेषणवत्यामेव तिरि पसु णथि तित्थयरणाम संतं ति देसियं समए । कह य तिरिओ ण होही अयरोवमकोडीकोडीओ ॥८॥ तं पि सुनिकाइयस्सेव तइयभवभाविणो विणिद्दिटं । अणिकाइयंमि वच्चइ सव्वगईओ वि ण विरोहो ॥८॥” तथा च ॥१७॥ यत्सुनिकाचितं तदेव तीर्थकरनाम सत्तिर्यग्गतौ प्रतिषिद्धं, यत्तु प्रभूतस्थितिकमप्यपवर्तनाकरणेन लघुस्थितिक क्रियते, उद्वर्त्तनया वा CREDITSRODRESEGO es SRDAST
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy