________________
NROSCOODANCE
कम्मणिसेगो ॥७२॥ __(मलय०)-'थिर' नि-स्थिरे, 'शुभपश्चके'-शुभसुभगसुस्वरादेययशःकीर्तिरूपे, उच्चर्गोत्रे च-तथा 'संठाणसंघयणमूले'ति-मूले
प्रथमे संस्थाने समचतुरस्रलक्षणे, प्रथमे च संहनने वज्रर्षभनाराचसंज्ञे, एवं-पूर्वोक्तप्रकारेणोत्कृष्टा स्थितिरवगन्तव्या, दश सागरोपम४ कोटीकोटय उत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । दश वर्षशतानि चाबाधा । अबाधाकालहीनश्च कर्मदलिकनिपेकः । 'तब्बीइयाइ बिवुड्डी'
तेषां संस्थानानां संहननानां च मध्ये 'द्वितीयादिषु'-द्वितीयतृतीयादिषु संस्थानेषु संहननेषु च द्विवृद्धिः द्विकवृद्धिः क्रमेणावसेया । तद्यथा-द्वितीययोः संस्थानसंहननयोादश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, द्वादशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तृतीययोः संस्थानसंहननयोश्चतुर्दश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । चतुर्थयोः संस्थानसंहननयोः षोडश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, षोडश वर्षशता-|Y न्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्थानसंहननयोरटादश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतानि चावाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । षष्ठयोः संस्थानसंहननयोविंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, द्वे वर्षसहस्र अबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिपेकः । 'अट्ठारस सुहुमविगलतिगे' सूक्ष्मत्रिके-मूक्ष्मापप्तिसाधारणरूपे, विकलत्रिके-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणे, अष्टादशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतान्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥७२॥ (उ०)-स्थिरे, तथा शुभपञ्चके-शुभशुभगसुखरादेययशःकीर्तिरूपे, उचैगोत्रे च, तथा संस्थानसंहननमूले प्रथमे संस्थाने प्रथमे च