________________
| बाधाकालहीना। येषां कर्मणां यावत्यः सागरोपमकोटिकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालः, तावन्तं हि कालं तानि कर्माणि स्वोदयतो जीवस्य बाधां नोत्पादयन्ति । तत्र मतिज्ञानावरणादीनां त्रिंशत्सागरोपमकोटाकोट्य उत्कृष्टा स्थितिरिति त्रिंशद्वर्षशतान्यबाधाकालः,अबाधाकालहीनश्च कर्मनिपेको भावनीयः । तथा स्त्रीवेदे मनुष्यगतिमनुष्यानुपूर्वी रूपे सातवेदनीये च पूर्वोक्तस्थितेरर्द्धमुत्कृष्टस्थितितया द्रष्टव्यम् । स्त्रीवेदादीनां पञ्चदशसागरोपमकोटाकोट्य उत्कृष्टा स्थितिरित्यर्थः । पञ्चदशवर्षशतान्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ।। ७० ॥ तिविहे मोहे सत्तरि चत्तालीसा य वीसई य कमा । दस पुरिसे हासरई देवदुगे खगइ चेट्टाए ॥७१॥
(चू०)-मिच्छतस्स सोलसहं कसायाणं णपुंसगवेअअरतिसोगभयदुर्गुच्छाणं पडिवाडीए सत्तरिचत्तालीसावीससागरोवमकोडाकोडीउ, सत्त-चत्तारि-बे-वाससहस्माणि अवाहाउ, अबाहणिगा कम्महिती कम्म|णिसे गो । 'दस पुरिसे हासरती देवदुगे खगति चेट्टाए'त्ति-पुरिसवेदहासरतिदेवगतिदेवाणुपुवीपसत्थविहायगतीणं दससागरकोडाकोडीओ । दसवाससयाणि अबाहा । अबाणिगा कम्महिती कम्मणिसेगो॥७॥
(मलय०)-'तिविहे' त्ति। त्रिविधे-त्रिप्रकारे 'मोहे' मोहनीये मिथ्यात्वलक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकभयजुगुप्सारूपे च नोकषायमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटीकोट्यः सप्ततिः चत्वारिंशत् विंशतिश्च । यथासंख्यमेव च सप्त चत्वारि द्वे च वर्षसहस्र अबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । इह पुरुषवेदहास्यरतीनां विशेषतो वक्ष्यमाणत्वात् स्त्रीवेदस्य चोक्तत्वान्नोकषायमोहनीयग्रहणेन नपुंसकवेदारतिशोकमयजुगुप्सानामेव ग्रहणमवगन्तव्यम् । 'दस
ANS-VACANC
E