________________
कर्मप्रकृतिः
॥१६३॥
Shath
तत्र पश्चानामन्तराय प्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां च दर्शनावरणप्रकृतीनामसातवेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमाणां कोटीकोटयः । इह द्विधा स्थितिः - कर्मरूपतावस्थानलक्षणा, अनुभवयोग्या च । तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमिदमवगन्तव्यम् । अनुभवप्रायोग्या पुनरबाधाकालहीना । येषां च कर्मणां यावत्यः सागरोपमकोटी कोटथस्तेषां तावन्ति वर्षशतानि अबाधाकालः । तथाहि मतिज्ञानावरणस्य त्रिंशत्सागरोपमकोटीकोटय उत्कृष्टा स्थितिरतस्तस्याबाधाकालोऽप्युत्कृष्टस्त्रिंशद्वर्षशतान्यवगन्तव्यः । यतस्तन्मतिज्ञानावरणमुत्कृष्टस्थितिकं बद्धं सस्त्रिंशद्वर्षशतानि यावन्न काञ्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति । अबाधाकालहीनश्च कर्मदलिकनिषेकः । एवं श्रुतज्ञानावरणादीनामप्युक्तप्रकृतीनामबाधाकालोऽबाधाकालहीनश्च कर्म| दलिकनिषेको भावनीयः । तथा स्त्रीवेदे 'मनुष्यद्विके' - मनुष्यगतिमनुष्यानुपूर्वीरूपे सातवेदनीये च पूर्वोक्तस्य स्थितिप्रमाणस्यार्धमुत्कृष्टस्थितितया द्रष्टव्यम्, पञ्चदशसागरोपमकोटीकोटयः स्त्रीवेदादीनामुत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । पञ्चदशवर्षशतान्यवाचा कालोऽबाधाकालहीनश्च कर्मलिक निषेकः ॥७०॥
( उ० ) - यथा संक्लेशस्थानान्यसंख्येयगुणतया प्रागुक्तान्येवमेवानेन क्रमेणासंख्येयगुणतयैवेत्यर्थः विशोधयोऽपि - विशुद्धिस्थाना| न्यपि वक्तव्यानि । यान्येव हि संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य विशोधिस्थानानीति नेह भावनाविशेषः । अथोत्कृष्टेतरस्थितिप्रतिपादनार्थमाह – 'विग्धे' त्यादि । विघ्नोऽन्तरायं, आवरणं-ज्ञानावरणं दर्शनावरणं च । तत्र पञ्चानामन्तरायप्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां दर्शनावरणप्रकृतीनामसातवेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटयः । इह द्विधा स्थिति:- कर्म तयाऽवस्थानरूपा, अनुभवयोग्या च । तत्राद्यामधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमेतदवगन्तव्यम् । अनुभवयोग्या पुनर
GKVZ2
Las's
स्थिति
बन्धप्ररूपणा.
॥ १६३॥