SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ स्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिस्थानसत्कसंक्लेशस्थानापेक्षयोत्कृष्टे स्थितिस्थाने तान्यसंख्येयगुणानि भवन्ति तदा बादरापर्याप्तस्थितिस्थानेषु सूक्ष्मापर्याप्तस्थितिस्थानापेक्षया संख्येयगुणेषु सुतरां भवन्ति । एवमुत्तरत्राप्यसंख्येयगुणत्वं भावनीयम् । एवं च प्राक्तनसंक्लेशस्थानानामाद्यापेक्षयैवोत्तरत्राऽसंख्येयगुणत्वमिति न काप्यनुपपत्तिः ।। ६८-६९ ।। इदाणिं उक्करसजहण्णिगा किती भण्णइ एमेव विसोहीओ विग्घावरणेसु कोडिकोडीओ । उदही तीसमसाते तद्धं थीमणुयदुगसाए ॥ ७० ॥ (०) 'विग्घावरणेसु कोडाकोडीओ उदही तीसमसाए'त्ति - पंचन्हं णाणावरणीयाणं, णवण्हं दंसणावरणीयाणं, पंच अंतराइआणं असातवेयणिज्जस्स उक्किस्सगो उ ठितिबन्धो तीसं सागरोवमकोडाकोडीओ, तिन्निवास सहस्साणि अवाहा, अबाहणिया कम्मद्विती कम्मणीसेगो । 'तद्धं थीमणुयदुगसाते' त्ति - इत्थिवेयमणुयगतिमणुयाणुपुव्विसायावेयणीयाणं अद्धं ति-पण्णरससागरोवमकोडाकोडीउ, पण्णरसवाससयाणि य अबाहा, अबाहणिया कम्मट्टिती कम्मणिसेगो ॥७०॥ (मलय ० ) – 'एमेव ' त्ति | 'एमेव विसोहीओ' -त्ति - यथा संक्लेशस्थानान्यसंख्येयगुणतया प्रागुक्तानि एवमेव असंख्येयगुणतयैवेत्य र्थः, विशोधयोऽपि विशोधिस्थानान्यपि वक्तव्यानि । यतो यान्येव संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य सतो विशुद्धिस्थानानि भवन्ति । एतच्च प्रागेव सप्रपञ्चं भावितम्, नेह भूयो भाव्यते, ततो विशोधिस्थानान्यपि संक्लेशस्थानवत् क्रमेण सर्वत्राप्यसंख्येयगुणानि वक्तव्यानि । साम्प्रतमुत्कृष्टेतरस्थितिप्रतिपादनार्थमाह- 'विग्घ' त्ति अन्तरायं, 'आवरण' - ज्ञानावरणं दर्शनावरणं च ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy