SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ SIMICROPOLICE प्रागुक्तानि । 'संकिलेसा य सव्वत्थ'-संक्लेशाश्च सर्वत्र-सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः, आस्तां द्वीन्द्रियस्य प्रथमभेदेऽपयोप्तलक्षण || स्थितिस्थानान्यसंख्येयगुणानीति चशब्दार्थः। तद्यथा-मूक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्यासंख्येयगुणानि । तेभ्योऽपि पर्याप्तसूक्ष्मस्यासंख्येयगुणानि । तेभ्योऽपि पर्याप्तवादरस्यासंख्येयगुणानि । तेभ्योऽपि द्वीन्द्रियस्यापर्याप्तस्यासंख्येयगुणानि । एवं पर्याप्तद्वीन्द्रियापर्याप्तपर्याप्तत्रीन्द्रियचतुरिन्द्रियासंझिसंज्ञिपञ्चन्द्रियाणां यथोत्तरमसंख्येयगुणानि वक्तव्यानि । कथमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि संक्लेशस्थानानि ?इति चेद् ,उच्यते-इह मूक्ष्मस्यापर्याप्तस्य जघन्यस्थितिवन्धारम्भे यानि संक्लेशस्थानानि तेभ्यः समयाधिकजघन्यस्थितिबन्धारम्भे संक्लेशस्थानानि विशेषाधिकानि । तेभ्योऽपि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि विशेषाधिकानि । एवं तावद्वाच्यं यावत्तस्यैवोत्कृष्टा स्थितिः। तदुत्कृष्टस्थितिबन्धारम्भे च संक्लेशस्थानानि जघन्यस्थितिसत्कसंक्लेशस्थानापेक्षयाऽसंख्येयगुणानि लभ्यन्ते । यदेतदेवं तदा सुतरामपर्याप्तवादरस्य संक्लेशस्थानानि अपर्याप्तसूक्ष्मसत्कसंक्लेशस्थानापेक्षयाऽसंख्येयगुणानि भवन्ति । तथाहि-अपर्याप्तसूक्ष्मसत्कस्थितिस्थानापेक्षया बादरापर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । स्थितिस्थानवृद्धौ च संक्लेशस्थानवृद्धिः। ततो यदा सूक्ष्मापर्याप्तस्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिस्थानसत्कसंक्लेशस्थानापेक्षया उत्कृष्ट स्थितिस्थाने संक्लेशस्थानान्यसंख्येयगुणानि भवन्ति तदा बादरापर्याप्तस्थितिस्थाने सूक्ष्मापर्याप्तस्थितिस्थानापेक्षया संख्येयगुणेषु सुतरां भवन्ति । एवमुत्तरत्रापि असंख्येयगुणत्वं भावनीयमिति ॥६८-६९॥ (उ०)—तदेवमुक्तोऽनुभागबन्धः, अथ स्थितिबन्धाभिधानावसरः। तत्र चत्वायनुयोगद्वाराणि-स्थितिस्थानप्ररूपणा, निषेकप्ररूपणा, अबाधाकण्डकप्ररूपणा, अल्पबहुत्वप्ररूपणा च । तत्र स्थितिस्थानप्ररूपणार्थमाह-इह जघन्यस्थितेरारभ्योत्कृष्टां स्थिति | GASS Sastava
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy