SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१६॥ RADITIONSORRCaraGDIT (मलय०) तदेवमुक्तोऽनुभागबन्धः। सम्प्रति स्थितिबन्धाभिधानावसरः । तत्र च चत्वार्यनुयोगद्वाराणि । तद्यथा-स्थितिस्थान-1 प्ररूपणा, निषेकप्ररूपणा, अबाधाकण्डकप्ररूपणा, अल्पबहुत्वप्ररूपणा च । तत्र स्थितिस्थानप्ररूपणार्थमाह-'ठिइति । इह जघन्य स्थितिY| स्थितेरारभ्योत्कृष्टां स्थिति यावत् यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानि । तथाहि-जघन्यायाः स्थितेरेकं स्थितिस्थानम् , IX वन्धप्ररू पणा. | सैव समयाधिका द्वितीयं स्थितिस्थानम् , द्विसमयाधिका तृतीयं स्थितिस्थानम् , एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तानि || च स्थितिस्थानानि सूक्ष्मस्यापर्याप्तस्य सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्य संख्येयगुणानि । तेभ्योऽपि सूक्ष्मपर्याप्तस्य संख्येय४ गुणानि। तेभ्योऽपि पर्याप्तबादरस्य संख्येयगुणानि। एतानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि द्रष्टव्यानि । ततोऽपर्याप्त-15 द्वीन्द्रियस्यासंख्येयगुणानि । कथमेवं गम्यते ? इति चेद् , उच्यते-द्वीन्द्रियाणामपर्याप्तानां स्थितिस्थानानि पल्योपमस्य संख्येयभाग-1 | गतसमयप्रमाणानि, पाश्चात्यानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि, ततः पाश्चात्येभ्योऽमून्यसंख्येयगुणान्येवोपपद्यन्ते । तेभ्योऽपि द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रीन्द्रियस्यापर्याप्तकस्य संख्येयगुणानि। तेभ्योऽपि तस्यैव पर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि चतुरिन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि चतुरिन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । तेभ्योऽप्यसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽप्यसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि संक्षिपञ्चेन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । 'असमत्तियरे' तिअसमाप्तानाम्-अपर्याप्तानामितरेषां च-पर्याप्तानां बादरादीनां स्थितिस्थानानि क्रमेण संख्येयगुणानि वक्तव्यानीति | नवरमेकेन्द्रियाणां ॥१६॥ स्थितिस्थानान्यभिधायानन्तरं द्वीन्द्रियस्य प्रथमे भेदेऽपर्याप्तरूपे स्थितिबन्धस्थानान्यसंख्येयगुणानि वक्तव्यानि । तथव च युक्तिपूर्व | 5
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy