SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तथाहि तिर्यङ्मनुष्याः सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि संस्थानेषु समवतुरस्र मेत्र, संहननं तु न कि - ञ्चिदपि । शुभविहायोगतिसुभगसुस्वरादेयोच्चगत्राण्यप्रतिपक्षाण्येव । देवनारका अपि सम्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यद्विकादिकम् संस्थानेषु समचतुरस्रमेव, संहननेषु वज्रर्षभनाराचमेव विहायोगत्यादिका अपि शुभा एव नाशुभा इति परावृत्त्यभावात्सम्यग्दृष्टित्यागः । तत्र मनुष्यगतिद्विकस्य पञ्चदशसागरोपमकोटीकोटथ उत्कृष्टा स्थितिः । प्रशस्तविहायोगतिसुभगसुस्वरादेयोचेत्रिवर्षभनाराचसमचतुरस्राणां तु दश । एताः शुभः कृतयः स्वस्वोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह परावृच्य परावृत्य तावद्वध्यन्ते यावत्तासामेव प्रतिपक्षप्रकृतीनां सर्वजघन्यान्तः सागरोपम कोटीकोटीलक्षणा स्थितिः । एतेषु स्थितिस्थानेषु परावर्त्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति । हुंड सेवार्त्तयोरपि वामनकीलिकयोरुत्कृष्टस्थितेरारभ्य स्वस्वजघन्यस्थितिं यावत्परावृतिर्लभ्यते । शेषसंस्थान संहननानामप्यात्मीयोत्कृष्टस्थितेरारभ्य संभवदितरसंस्थानसंहननैः सह परावृत्तिस्तावल्लभ्यते यावदात्मीयात्मीयजघन्य स्थितिः । एतेषु स्थितिस्थानेषु मिथ्यादृष्टिः परावर्त्तमानमध्यमपरिणामो जघन्यानुभागं बध्नाति । तथाऽरतिशोकयोः प्रमत्तसंयतोऽप्रमत्तसंयमं प्रतिपित्सुर्जघन्यरसानुबन्धस्वामी, तद्बन्धकेषु तस्यातिविशुद्धत्वात् । ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशानां प्रकृतीनां क्षपकः सूक्ष्मसम्परायान्त्यसमये वर्त्तमानः समयमेकं तथा, तद्द्बन्धकेषु तस्य विशुद्धतमत्वात् । पुरुषवेदसंज्वलनचतुष्कयोरनिवृत्तिबादरः क्षपकः स्वबन्धव्यवच्छेदसमये समयमेकं तथा, तस्यापि तद्बन्धकेष्वतिविशुद्धत्वात् । अप्रशस्तवर्णादिचतुष्टयनिद्राप्रचलोपघातहास्यरतिभय जुगुप्सारूपाणामेकादशप्रकृतीनामपूर्वकरणः क्षपणार्हः स्वस्वबन्धव्यवच्छेदसमये समयमेकं तथा, तस्यापि तद्बन्धकेषु परमविशुद्धवात् । स्त्यानर्द्धित्रिकमिध्यात्वानन्तानुबन्धिनामष्टानां कर्मणां सम्यक्त्वं संयमं च युगपत्प्रतिपित्सुर्मिथ्यादृष्टिश्वरमसमये Na
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy