SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ D कर्मप्रकृतिः ॥१५९॥ CARE ODCORROHDNok लक्षणां बध्नाति, ततोऽन्तर्मुह द्विशुद्धः स्थिरादिका बध्नाति, पुनरप्यस्थिरादिका इत्येवं देशविरताविरतमिश्रसास्वादनमिथ्यादृष्टयोऽपि | परावृत्य परावृत्य सपतिपक्षा अस्थिराशुभायशःकीर्तीबध्नन्ति । तत्र मिथ्यादृष्टिः परावृत्यैतास्तावद्बध्नाति यावस्थिरादीनामुत्कृष्टा । अनुभाग| स्थितिः । एतेषु च सम्यग्दृष्टिमिथ्यादृष्टिस्थानेषु जघन्यानुभागबन्धो लभ्यते, नान्यत्र । दशकोटाकोटीपरतो ह्यस्थिरादय एवाशुभा बहु बन्धप्ररूरसा बध्यन्ते । अप्रमत्तादिभिस्तु स्थिराद्याः शुभा एव बहुरसा बध्यन्त इति नान्यत्र जघन्यानुभागलाभः । तथा स्थावरकेन्द्रियजात्यो पणा. नैरयिकवजः शेषत्रिगतिको मिथ्यादृष्टिः परावर्त्तमानमध्यमपरिणामो जघन्यानुभागवन्धस्वामी । सर्वविशुद्धो हि पश्चेन्द्रियजातित्रसनाम्नोर्बन्धको भवति । सर्वसंक्लिष्टः स्थावरैकेन्द्रियजात्योरुत्कृष्टानुभागबन्धक इत्यालोच्य मध्यमपरिणामग्रहणम् । अयं च मध्यमपरिणामो यदैकस्मिन्नन्तर्मुहूर्ते एकेन्द्रियजातिस्थावरनाम्नी बद्ध्वा पुनर्द्वितीयेऽप्यन्तर्मुहूर्ते ते एव बध्नाति तदापि भवति । केवलं तदाऽवस्थितपरिणामेऽशुभयोरनयोजघन्यानुभागहेतुर्विशुद्धिर्न लभ्यत इति मध्यमपरिणामः परावर्त्तमानत्वेन विशिष्यते, तादृशश्च परिणामः पञ्चेन्द्रियजातिवसनामभ्यां परावृत्य परावृत्य बन्धे भवति, तदा च जघन्यानुभागो लभ्यत इति । भवत्वेवं तथापि नारकवर्जनं किमर्थम् ? इति चेद्,उच्यते-नारकाणां स्वभावादेवैतत्प्रकृतिद्वयाबन्धकत्वात् । आतपनाम्नस्तु सर्वसंक्लिष्टा ईशानान्ता देवा मिथ्यादृष्टयो जघन्यानुभागबन्धस्वामिनः, अस्य शुभप्रकृतित्वेन सर्वसंक्लिष्टानामेव जघन्यानुभागबन्धकत्वात् , तद्बन्धकेषु चैतेषामेव सर्वसंक्लिष्टत्वात् । तिर्यङ्मनुष्या ह्येतावति संक्लेशे वर्तमाना नारकादिप्रायोग्यं बध्नीयुः। नारकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेव तन्न बध्नन्तीति सर्वपरिहारेण यथोक्तदेवानामेव ग्रहणम् । मनुष्यद्विकसंहननषद्कसंस्थानषद्कविहायोगतिद्विकसुभगसुस्वरादेयदुर्भगदुःस्वरानादेयोचैर्गोत्रलक्षणानां ॥१५९॥ त्रयोविंशतिप्रकृतीनां चतुर्गतिका अपि मिथ्यादृष्टयो मध्मपरिणामा जघन्यानुभागं कुर्वन्ति । सम्यग्दृष्टीनां ह्येतासां परावृत्तिर्नास्ति । NOSDOSDOICENG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy