________________
ततो मनाग्विशुद्धतराः स्त्रीवेदस्य, सर्वविशुद्धास्तु पुरुषवेदमेव बध्नन्तीति मनाम्बिशुध्यन्त इत्युक्तम् । सातवेदनीयस्थिरशुभयशःकी - नां सप्रतिपक्षाणां सम्यग्दृष्टिमिथ्यादृष्टिवा परावर्तमानमध्यमपरिणामो जघन्यानुभागबन्धस्वामी । कथम् ? इति चेद्, उच्यते-इह सातस्य पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, असातस्य च त्रिंशत् । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तःसागरोपमकोटाकोटिप्रमाणां स्थिति बध्नाति, ततोऽन्तर्मुहूर्तात्परावृत्य परावृत्य सातं बध्नाति, पुनरप्यसातम् । एवं देशविरताविरतसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिसासादनमिथ्यादृष्टयोऽपि परावृत्य सातासाते बध्नन्ति । तत्र मिथ्यादृष्टिः सातासाते परावृत्य तावद्बध्नाति यावत्सांतस्य पञ्चदशसागरोपमकोटाकोटिलक्षणा ज्येष्टा स्थितिः । ततः परतोऽपि संक्लिष्टः संक्लिष्टतरः | संक्लिष्टतमोऽसातमेव केवलं तावद्बध्नाति यावत् त्रिंशत्सागरोपमकोटीकोटयः । प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धविशुद्धतरविशुद्ध| तमाः सातमेव केवलं बध्नन्ति यावत्सूक्ष्मसम्पराये द्वादशमुहूर्ताः । तदेवं व्यवस्थिते सातस्यासातेन सह परावृत्य परावृत्य बन्धे उत्कृटस्थितेरारभ्य जघन्यानुभागबन्धोचितः परावर्त्तमानमध्यमपरिणामस्तावल्लभ्यते यावत्प्रमत्तेऽन्तःसागरोपमकोटाकोटीलक्षणा सर्वजघन्या स्थितिः। एतेषु हि सम्यग्दृष्टिमिथ्यादृष्टियोग्यस्थानेषु प्रकृतेः प्रकृत्यन्तरसंक्रमे मन्दः परिणामो जघन्यानुभागबन्धोचितो लभ्यते. | नान्यत्र, शुद्धस्थितावप्रमत्तादीनां मिथ्यादृष्टेश्च सातासातयोः प्रभूतरसाभिनिवृत्तेः । सागरोपमसप्तभागत्रयादिरूपवेदनीयस्थितिबन्धक
वेकेन्द्रियादिष्वपि तथाविधाध्यवसायाभावाजघन्यानुभागबन्धो न संभवति तस्माद्यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसंभवस्तथाविधपरिणामसद्भावादिति । अस्थिराशुभायश-कीर्तीनां विंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिः । स्थिरशुभयशःकीर्तीनां तु दश । तत्रास्थिराशुभायश-कीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धौ जघन्यां स्थितिमन्तःसागरोपमकोटाकोटी