SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ।।१५८।। दिकरणत्रयपूर्वमन्तरकरणं कृत्वा प्रथमस्थितिं विपाकतोऽनुभवन्तश्चरमसमये मिध्यादृष्टयस्तथा । अस्य हि प्रकृतित्रयस्याशुभत्वात्सर्व| विशुद्धा जघन्यानुभागबन्धकारिणः । तद्रन्धकेषु चैत एव विशुद्धा इति । उक्तं च शतकचूर्णौ - "तिरियगइतिरियाणुपुब्विणीयागोयाणं | अहे सत्तमपुढविनेरईओ सम्मत्ताभिमुहो करणारं करित चरमसमयमिच्छदिट्ठी भवपच्चरण ताओ तिन्नि वि बंधई जाव मिच्छत्तभावो ताव तस्स जहण्णोणुभागो हवइ, तब्बंधगेसु अच्चतविसुद्ध त्ति काउं" । अन्यस्थानवर्ती तावत्यां विशुद्धौ मनुष्यद्विकादियुक्तमुच्चैगोत्रं बध्नीयादिति सप्तमपृथिवीनार कग्रहणमिति भावः । अविरतसम्यग्दृष्टिर्मिथ्यात्वनरकगमनाभिमुखो मनुष्यस्तीर्थकरनाम्नस्तथा । अस्य हि शुभप्रकृतित्वाज्जघन्यानुभागः संक्लेशेन बध्यते, स च यथोक्तविशेषणविशिष्टस्यैवलभ्यते । तत्र तियञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमान काश्च भवप्रत्ययेनैव न भवन्तीति मनुष्यग्रहणम् । क्षायिकसम्यग्दृष्टिश्रेणिकादेर्नर कगमनाभिमुखस्यापि विशुद्धत्वादन्यगत्यभिमुखस्य च सम्यग्दृष्टेस्तादृशसंक्लेशाभावान्मिथ्यात्वनरकाभिमुखग्रहणम् । पञ्चेन्द्रियजातितैजसकार्मण प्रशस्तवर्णगन्धरसस्पर्शागुरुलघुपराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येक निर्माणलक्षणानां पञ्चदशप्रकृतीनां चतुगतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कृष्टसंक्लेशा | जघन्यानुभागबन्धकारिणः । एता हि शुभप्रकृतित्वात्सर्वोत्कृष्टसंक्लेशैर्जघन्यरसाः क्रियन्ते । तत्र च तिर्यङ्मनुष्याः सर्वोत्कृष्टसंक्लेशे वर्त्तमाना नरकगतिसहचरिता एता बघ्नन्तो जघन्यरसाः कुर्वन्ति, नारकाः सनत्कुमारादिदेवाश्च सर्वसंक्लिष्टाः पञ्चेन्द्रियतिर्यक्प्रायोग्या एता बध्नन्तो जघन्यरसाः कुर्वन्ति, ईशानान्तास्तु देवाः सर्वसंक्लिष्टाः पञ्चेन्द्रियजातित्र सवर्जाः शेषाः प्रकृतीस्त्रयोदशै केन्द्रियप्रायोग्या बघ्नन्तो जघन्यरसा विदधति । पञ्चेन्द्रियजातित्रसनाम्नी तु विशुद्धा अमी बध्नन्ति इति जघन्यरसो न लभ्यत इति तद्वर्जनम् । त एव चतुर्गतिका मिथ्यादृष्टयो मनाग्विशुद्ध्यन्तः स्त्रीवेदनपुंसक वेदयोर्जघन्यानुभागबन्धस्वामिनः केवलं मनाक्छुध्यन्तो नपुंसकवेदस्य, लल्याव Kaisa अनुभागबन्धप्ररूपणा. ।। १५८।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy