________________
F
___ जघन्यानुभागस्वामित्वविषयेऽप्रमत्तयतिः प्रमत्ताभिमुख आहारकद्विकस्य जघन्यानुभागबन्धस्वामी, तस्य तद्वन्धकेषु सर्वसंक्लिष्ट। त्वात् । सूक्ष्मत्रिकविकलत्रिकायुश्चतुष्टयदेवद्विकनरकद्विकवैक्रियद्विकरूपाणां षोडशप्रकृतीनां नरतिर्यश्चो जघन्यानुभागबन्धस्वामिनः।।
अत्र हि तियङ्मनुष्यायुषी विना शेषाश्चतुर्दश प्रकृतीर्देवनारका भवप्रत्ययादेव न बध्नन्ति, तिर्यङ्मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिक बध्यते तदा जघन्यरसं क्रियते । देवनारकास्तु तजघन्यं न बध्नन्त्येव, तत्स्थितिकेषु तेषामुत्पत्त्यभावात् , तस्मादेतत्प्रकृतिपोडशकं | नारकायोग्य भिति नरतिरश्चामेव ग्रहणम् । तत्र नारकायुषो शुभत्वात्तद्वन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिबन्धकाले | जघन्यानुभागं तिर्यमनुष्याः कुर्वन्ति, शेषायुस्त्रयस्य शुभत्वात्तबन्धकेषु सर्वसंक्लिष्टाः स्वस्वसर्वजघन्यस्थितिबन्धका जघन्यानुभाग-1 | बन्धस्वाभिनः । नरकद्विकस्याशुभत्वाजघन्यस्थितिबन्धकाले तद्वन्धकेषु सर्वविशुद्धास्तथा । देवद्विकस्य शुभत्वात्स्वोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसंक्लिष्टास्तथा, अतिसंक्लिष्टो नरकादियोग्यं बध्नीयादिति तत्प्रायोग्यसंक्लेशग्रहणम् । एवमन्यत्रापि द्रष्टव्यम् । वैक्रियद्विकस्यापि शुभत्वान्नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थिति बनतस्तथा । विकलत्रिकमूक्ष्मत्रिकयोस्त्वशुभत्वात्तत्प्रायोग्यविशुद्धास्तथा, अतिविशुद्धा मनुष्यादिप्रायोग्यं बघ्नन्तीति तत्प्रायोग्यविशुद्धिग्रहणम् । औदारिकद्विकोद्योतानां देवा नैरयिका वा तिर्यग्गतेविंशतिसाग-12 रोपमकोटाकोटिप्रमाणामुत्कृष्टस्थिति बघ्नन्त उत्कृष्टसंक्लेशे वर्तमाना जघन्यानुभागबन्धस्वामिनः, एतासां प्रकृतीनां तिर्यग्गतिप्रायो ग्यवन्धसहचरितानामेव जघन्यरसबन्धात् । तिर्यङ्मनुष्याणां चैतावति संक्लेशे वर्तमानानां नरकगतिप्रायोग्यबन्धसंभवेनैतद्वन्धा| संभवात् । औदारिकाङ्गोपाङ्गस्य च देवा ईशानात्परे द्रष्टव्याः, ईशानान्तानामतिसंक्लिष्टानामप्येकेन्द्रियप्रायोग्यस्यैव बन्धात, औदा रिकाङ्गोपाङ्गस्य चैकेन्द्रियापायोग्यत्वात् । तिर्यग्द्विकनीचैर्गोत्राणां सप्तमपृथिवीनारका औपशमिकसम्यक्त्वमुत्पादयन्तो यथाप्रवृत्ता
ROIceGट