________________
कर्मप्रकृतिः
॥१५७॥
aas
कस्यावाप्यते, न शेषस्य, तिर्यग्मनुष्याश्च सम्यग्दृष्टयो न मनुष्यायुर्वन्धकाः तेषां देवायुर्बन्धसंभवात् । येऽपि देवा नारका वा सम्यदृष्टयो मनुष्यायुर्बघ्नन्ति तेऽपि कर्मभूमियोग्यमेव, नाकर्मभूमियोग्यं तत्र तेषामुत्पादाभावात् । ततो मनुष्यायुरादीनां चतसृणामपि प्रकृतीनामुत्कृष्टानुभागबन्धस्वामी मिथ्यादृष्टिरेव न सम्यग्दृष्टिरिति स्थितम् । अत्रापि विशेषचिन्तायामातपस्य तत्प्रायोग्यविशुद्धो मिथ्यादृष्टिर्देवस्तथा नारकाणामेकेन्द्रियार्हस्य तस्य बन्धासंभवात् तिर्यङ्मनुष्याणां च तदुत्कृष्टरसयोग्यायां विशुद्धौ वर्तमानानां तिर्यक्पचे न्द्रियादियोग्यान्य शुभतरबन्धसंभवात् । उद्योतनाम्नः सप्तमपृथिव्यां वर्तमानो नारक औपशमिकसम्यक्त्वमुत्पादयितुकामो यथाप्रवृत्तादिकरणत्रय पुरस्सरमन्तरकरणं कृत्वा मिध्यात्वस्य प्रथमस्थितिमनुभवँश्वरमसमये वर्त्तमान उत्कृष्टानुभागबन्धस्वामी, तद्बन्ध केषु तस्यातिविशुद्धत्वात् । तिर्यङ्मनुष्यायुषोस्तिर्यङ्मनुष्यो वा तत्प्रायोग्य विशुद्धो मिथ्यादृष्टिस्तथा । अगुरुलघुतैजसकार्मणनिर्माण प्रशस्त वर्णगन्धरसस्पर्शदेवद्विक वैक्रियद्विकाहारकद्विकपश्चेन्द्रिय जातिसमचतुरस्रसंस्थानपराधातोच्छ्वासप्रशस्तविहायोगतितीर्थकरयशःकीर्तिवर्जत्रसादिनवकरूपाणामेकोनत्रिंशत्प्रकृतीनामपूर्वकरणः क्षपणार्हो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्त्तमान उत्कृष्टानुभागबन्धस्वामी, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् | मनुष्य द्विकौदारिक द्विकप्रथम संहननानां सम्यग्दृष्टिदेवोऽतिविशुद्ध उत्कृष्टानुभागमेकं द्वौ वा समयौ बध्नाति । मिथ्यादृष्टेः सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टिग्रहणम् । नारका अपि विशुद्धाः सन्त एताः प्रकृतीनिर्वर्त्तयन्ति, केवलं नन्दीश्वरादिचैत्यमहोत्सवापबृंहितभावत्रिदशवदतिविशुद्धत्वाभावात्तपामग्रहणम्। तिर्यङ्मनुष्याणां पुनरतिशुद्धानां देवगतिप्रायोग्यबन्धकत्वात्तदयोग्यप्रस्तुत प्रकृतिबन्धासंभव इति सर्वव्युदासेन देवस्यैव ग्रहणम् । तथाऽप्रमत्तसंयतो देवायुष उत्कृष्टानुभागबन्धस्वामी, सर्वेभ्यस्तद्बन्धकेभ्योऽस्यातिविशुद्धत्वात् । सात वेदनीययशः कीचैर्गोत्राणां सूक्ष्मसम्परायश्वरमसमये वर्त्तमानस्तथा तद्बन्धकेभ्योऽस्यवातिविशुद्धत्वात् ।
Kaas
अनुभागबन्धप्ररू
पणा.
॥१५७॥