SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ४कत्वात्, मन्दसंक्लेशे चैतासामशुभत्वेनोत्कृष्टानुभागबन्धासंभवात् । नारकाणामीशानोत्तरदेवानां च भवप्रत्ययत एवैतत्प्रकृत्यबन्धक-1361 पत्वात् । तिर्यग्गतितिर्यगानुपूर्वीसेवातसंहननानां देवनारका अतिसंक्लिष्टा मिथ्यादृष्टय उत्कृष्टानुभागबन्धस्वामिनः । तिर्यग्नरा हि त-10 दहसंक्लेशे वर्तमाना नरकयोग्यमेव बध्नीयुः, न च तद्योग्या एताः प्रकृतय इति देवनारकग्रहणम् , ते हि सर्वसंक्लिष्टा अपि तिर्यगहमेव वनन्तीति । इह च सामान्योक्तावपि सेवात्कृिष्टानुभागवन्धकाः सनत्कुमागदिसुरा एव न त्वीशानान्ताः, तेषामतिसंक्लिष्टानामेकेन्द्रियाहस्यैव बन्धकत्वादित्यवधेयम् । शेषाणां तु ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयमिथ्यात्वपोडशकपायनमकवेदारतिशोकमय जुगुप्साहुंडसंस्थानाप्रशस्तवर्णरसगन्धस्पर्शोपघाताप्रशस्तविहायोगतिदुर्भगदुःस्वराशुभास्थिरानादेयायशःकीर्तिनीचगोंत्रान्तगयरूपाणां पटपञ्चाशत्प्रकृतीनां चतुर्गतिको मिथ्यादृष्टिरतिसंक्लिष्टः, हास्यरतिस्त्रीपुरुपवेदाधन्तवजसंस्थानसंहननरूपाणां द्वादशप्रक तीनां तत्प्रायोग्यसंक्लिष्ट उत्कृष्टानुभागबन्धस्वामी । सर्वोत्कृष्टसंक्लेशो हि हास्यरतियुगलमतिक्रम्यारतिशोकयुगलं बध्नाति. स्त्रीवेदम पंवेदौ त्वतिक्रम्य क्लीबवेद निर्वत्तयति । संस्थानसंहननेष्वपि सर्वसंक्लिष्टो विंशतिसागरोपकोटाकोटिस्थितिके हंडसेवा निर्वन यति । ततो विशुद्धोऽष्टादशसागरोपमकोटाकोटिस्थितिके वामनकीलिके। ततो विशुद्धतरः षोडशसागरोपमकोटाकोटिस्थितिके कुब्जा नाराचे । ततोऽपि विशुद्धश्चतुर्दशसागरोपमकोटाकोटिस्थितिके सादिनाराचे । ततो विशुद्धो द्वादशसागरोपमकोटाकोटिस्थितिके न्य| ग्रोधपरिमण्डलर्षभनाराचे । ततोऽपि विशुद्धो दशसागरोपमकोटाकोटिस्थितिके समचतुरस्रवज्रर्षभनाराचे इति । हीनाधिकसंक्लेशेऽन्यान्यबन्धसंभवात्तत्प्रायोग्यसंक्लेशग्रहणम् । आतपोद्योततियग्मनुष्यायुषां तु सुविशुद्धः संज्ञिमिथ्यादृष्टिरुत्कृष्टानुभागबन्धस्वामी । सम्यग्दटीनां हि तिर्यगायुगतपोद्योतानि बन्धमेव नायान्तीति कुतस्तदुत्कृष्टानुभागबन्धवार्ता ? मनुष्यायुषश्चोत्कृष्टोऽनुभागविपल्योपमस्थिति
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy