________________
कर्मप्रकृतिः ॥१५६॥
अनुभाग| बन्धप्ररू
पणा.
मोहे, निद्राप्रचलोपघाताप्रशस्तवर्णादिचतुष्टयभयजुगुप्सानामुपशमश्रेण्यामनिवृत्तिबादरे, प्रत्याख्यानावरणादीनां प्रमत्तसंयतादौ बन्धव्यवच्छेदे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । आसामेव शुभानामशुभानां वा ध्रुवबन्धिनीनामुक्तशेषा विकल्पाः साद्यध्रुवाः । तथाहि-तैजसाद्यानामष्टानां शुभध्रुवबन्धिनीनामुत्कृष्टः साद्यध्रुवतया प्रागेव भावितः । जघन्याजघन्यौ तु संज्ञिपर्याप्तमिथ्यादृष्टौ पर्यायेण प्राप्यते । अतिसंक्लिष्टे जघन्यः, सुविशुद्ध त्वजघन्य इति साधध्रुवावेतौ। अशुभधुवबन्धिनीनां तु जघन्यः साद्यधुवतया प्रागेव भावितः । उत्कृष्टस्तु मिथ्यादृष्टौ संज्ञिपर्याप्ते सर्वसंक्लिष्टे एकं द्वौ वा समयौ लभ्यते । ततः पुनरपि मन्दपरिणामेऽनुत्कृष्ट इतीमावपि साद्यध्रुवौ । अध्रुवबन्धिनीनां तु जघन्यादयश्चत्वारोऽप्यध्रुवबन्धित्वादेव साद्यध्रुवाः । कृता साधनादिप्ररूपणा ॥
अथ स्वामित्वप्ररूपणा क्रियते-तत्राशुभप्रकृतीनां तद्वन्धकेषु चरमबन्धसमयवर्तिनोऽत्यन्तविशुद्धाः समयमेकं जघन्यमनुभागं बध्नन्ति, स्वबन्धव्यवच्छेदादूर्ध्वमपि गत्वा पतन्तोऽजघन्यं बध्नन्ति । शुभानां प्रकृतीनां तद्बन्धकेषु चरमा अत्यन्त विशुद्धा उत्कृष्ट| मनुभाग बध्नन्ति, मन्दपरिणामपरिणतास्त्वनुत्कृष्टम् । तथा सकलानामशुभप्रकृतीनामुद्योतातपतिर्यग्मनुजायुषां च संज्ञिमिथ्यादृष्टिः समयमेकमुत्कृष्टमनुभागं बध्नाति । तत्राशुभप्रकृतिषु नरकत्रिकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणानां तिर्यग्मनुष्यो वा संज्ञी मिथ्यादृष्टिः उत्कृष्टानुभागबन्धस्वामी । तत्रापि नरकत्रिकस्यातिसंक्लिष्टो विकलत्रिकमूक्ष्मत्रिकयोश्च तदहसंक्लेशवान् , अतिसंक्लिष्टो | ह्येतत् षट्कमुल्लङ्घय नरकयोग्यं बध्नीयादिति । देवनारकाणां तु भवप्रत्ययवशादेतत्प्रकृतिबन्धासंभवः । एकेन्द्रियजातिस्थावस्योर्देवा | एव भवनपत्यादय ईशानान्ता अतिसंक्लिष्टमिथ्यादृश उत्कृष्टानुभागबन्धकाः, तिर्यग्मनुष्याणामतिसंक्लिष्टानां नरकगतिप्रायोग्यबन्ध
DIDANGERed
| ॥१५६॥