________________
जघन्यौ मिथ्यादृष्टौ सम्यग्दृष्टौ वा पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवौ । घातिनां जघन्योऽनुभागबन्धः साद्यध्रुवतया प्रागेव भावितः। उत्कृष्टानुत्कृष्टौ तु क्रमेण मिथ्यादृष्टौ प्राप्येते, सर्वसंक्लिष्टे उत्कृष्टो मध्यमपरिणामे त्वनुत्कृष्ट इति साद्यधुवावेतौ । गोत्रस्य जघन्योकृष्टौ साद्यधूवौ प्रागेव भावितौ । आयुषस्त्वध्रुवबन्धित्वाचत्वारोऽपि विकल्पाः साद्यधुवाः सुप्रतीताः ।।
उत्तरप्रकृतिषु शुभधुवबन्धिनीनां तैजसकार्मणप्रशस्तवर्णगन्धरसस्पर्शागुरुलघुनिर्माणरूपाणामष्टानां प्रकृतीनामनुत्कृष्टोऽनुभागबन्धश्चतुर्था । तथाहि-एतासां क्षपणार्हस्यापूर्वकरणस्य त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमये समयमात्रमुत्कृष्टोऽनुभागबन्धः प्राप्यते । स चैक४सामयिकत्वात्साद्यधवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशमश्रेण्यां बन्धव्यवच्छेदात्परतो न भवति, ततः प्रतिपाते च भूयोऽपि | भवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाधुवौ पूर्ववत् । तथाऽशुभानां ध्रुवबन्धिनीनां ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वषोडशकषायजुगुप्साभयोपघाताप्रशस्तवर्णादिचतुष्टयान्तगयपञ्चकरूपाणां त्रिचत्वारिंशत्प्रकृतीनामजघन्यश्चतुर्दा । तथाहि-ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां क्षपकस्य सूक्ष्मसंपरायान्त्यसमये, चतुणां संज्वलनानामनिवृत्तिबादरक्षपकस्य स्वस्वबन्धव्यवच्छेदसमये, निद्रापचलोपघातभयजुगुप्सा प्रशस्तवर्णगन्धरसस्पर्शानामपूर्वकरणस्य क्षपणाहस्य स्वस्वबन्धान्तसमये, चतुर्णा प्रत्याख्यानावरणानां संयमं प्रतिपित्सतो देशविरतस्य स्वगुणस्थानान्तसमये तद्बन्धकेषु तस्यातिविशुद्धत्वात् , चतुर्णामप्रत्याख्यानावरणानामविस्तसम्यग्दृष्टेः क्षायिकसम्यक्त्वं संयमं च युगपत्याप्स्यतः तद्वन्धकेषु तस्यैवातिविशुद्धत्वात्, स्त्यानद्धित्रिकमिथ्यात्वानन्तानुवन्धिनां मिथ्यादृष्टेः सम्यक्त्वं संयमं चैककालं प्रतिपत्तुकामस्य चरम समये जघन्योऽनुभागबन्धो लभ्यते । स च समयमात्रभावीति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयानामुपशान्त