SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अनुभागबन्धप्रहपणा. अथानुभागबन्धे साधनादिप्ररूपणा स्वामित्वप्ररूपणा च क्रियते-तत्र मूलप्रकृतिविषये नामकर्मवेदनीयकर्मणोरनुत्कृष्टो घातिककर्मप्रकृतिःमणां चाजघन्योऽनुभागश्चतुर्विधः-सादिरनादिधुंवोऽध्रुवश्चेति । तथाहि-नामवेदनीययोरुत्कृष्टोऽनुभागः सूक्ष्मसंपरायान्त्यसमये क्ष॥१५५॥ | पकस्य भवति । स च द्वितीयसमये व्यवच्छेदमुपयातीति साद्यध्रुव एव । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशान्तमोहे न भवति ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, अभव्यानां ध्रुवः, भव्यानामध्रुवः । तथा मोहनीयस्यानिवृत्तिबादरा१२न्त्यसमये ज्ञानावरणदर्शनावरणान्तरायाणां च सूक्ष्मसंपरायान्त्यसमये क्षपकस्य जघन्योऽनुभागबन्धः । स चैकसामयिक इति साद्यध्रुवः। ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां मोहनीयस्य सूक्ष्मसंपराये ज्ञानावरणादित्रिकस्योपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । गोत्रस्य द्वावप्यनुत्कृष्टाजघन्यौ चतुर्विधौ । तथाहि-गोत्रस्योत्कृष्टोऽनुभागबन्धः सूक्ष्मसंपरायान्त्यसमये क्षपकस्य, स चैकसामयिकत्वात्सायध्रुवः। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति मादिः, तत्स्थानमप्राप्तस्य पुनरनादिः , ध्रुवाध्रुवावभव्यभव्यापेक्षया । तथा गोत्रस्य ज धन्यानुभागबन्धः सप्तमक्षितिनारकस्यौपशमिकसम्यक्त्वमुत्पादयतोऽन्तरकरणं कृत्वा मिथ्यात्वस्य प्रथमस्थितावनुभवतः परिक्षीयमाYणायामन्त्यसमये वर्तमानस्य नीचेगोत्रमधिकृत्य भवति, स चैकसामयिक इति साद्यधुवः । ततोऽन्यः सर्वोऽप्यजघन्यो यावदुत्कृष्टो न भवति, स चौपशमिकसम्यक्त्वलाभकाले उच्चैर्गोत्रमधिकृत्य प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । अमीषां १) सप्तानामपि कर्मणां शेषविकल्पाः सादयोऽध्रुवाश्चेति द्विविधाः । तथाहि-वेदनीयनाम्नोरुत्कृष्टोऽनुभागः साद्यधुवतया प्रागेव भावितः। मध्यमपरिणामे मिथ्यादृष्टौ सम्यग्दृष्टौ वाऽनयोजघन्योऽनुभागबन्धः, संक्लिश्यमाने विशुध्यमाने वाजघन्य इति द्वावप्येतो जघन्या ||१५५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy