SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१५२॥ अनुभागबन्धमरू पणा. SIDIOSONISEDIOEMS | स्थितिः । ततो यतः स्थितिस्थानाज्जघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततोऽभव्य प्रायोग्यजघन्यानुभागविषये प्रथमकण्डकमात्राणां स्थितीनां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो यतः स्थितिस्थानाजघन्यमनुभाग| मुक्त्वा व्युपरतं तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यानुभागविषयकण्डकादुपरि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो यथोत्तरमनन्तगुणो वाच्यः । एवमेकस्याः स्थितेजघन्यमनुभागं कण्डकमात्राणां च स्थितीनामुत्कृष्टमनुभागं बर्दस्तावबजेद्यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये चरमा स्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुत्क्वा निवृतस्तत उपरितने जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धस्योपरि प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। तत उपरि प्रागुक्तजघन्यानुभागाद् द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः प्रागुक्तादुत्कृष्टानुभागादुपरितने स्थितिस्थाने उत्कृष्टानुभागोऽनन्तगुणः । एवमुसर्यध एकैकस्याः स्थितेजघन्यमुत्कृष्टं चानुभागमनन्तगुणं वदता तावद् गन्तव्यं यावदुत्कृष्टस्थितौ जघन्यानु| भागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागाः कथनावशिष्टा यथोत्तरमनन्तगुणा वाच्या यावदुत्कृष्टा स्थितिः । एव-| | मेव तिर्यगानुपूर्व्या नीचैर्गोत्रस्य च तीव्रमन्दता निरूपणीया। अथ त्रसनाम्नोऽभिधीयते-त्रसाम्नः सर्वोत्कृष्टस्थितेरारभ्याधोऽधः कण्डकमात्रासु स्थितिषु पश्चानुपूर्व्याऽनन्तगुणोऽनुभागो वक्तव्यः । तत उत्कृष्टायां स्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधः प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधस्तन्यां द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः । ततो द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदष्टादशसागरोपमकोटाकोटीनामुपरितनी स्थितिः । ततो ॥१५२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy