________________
ण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा येऽद्याप्यनुक्तास्तिष्ठन्ति ते यथोत्तरमनन्तगुणा वक्तव्याः यावदुत्कृष्टा स्थितिः । एवं नरकद्विकपश्चेन्द्रियजातिवर्ज जातिचतुष्टयाप्रथमसंस्थानसंहननाम शस्तविहायोगतिस्थावरदशकानामपि तीव्रमन्दता वाच्या ।
अथ तिर्यग्गतेस्तीव्रमन्दताऽभिधीयते - सप्तमपृथिव्यां वर्त्तमानस्य नैरयिकस्य सर्वजघन्ये स्थितिस्थाने जघन्यपदे जघन्यानुभागः सर्वस्तोकः । ततः स द्वितीयस्थितावनन्तगुणः । ततोऽपि तृतीयस्थितौ सोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्त्तनकण्डकमतिक्रान्तं भवति । ततो जघन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्त्तनकण्डकादुपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽधस्तनद्वितीय स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया तावन्नयेद्यावदभव्यप्रायोग्यजघन्यानुंभागबन्धस्याधश्चरमा स्थितिः । अभव्यप्रायोग्यजघन्यानुभाग|बन्धस्य चाधः कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा इयताप्यनुक्ताः सन्ति, शेषास्तूक्ताः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषये प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । द्वितीयस्यां स्थितौ जघन्यानुभागस्तावन्मात्र एव । तृतीयस्यामपि स्थितौ तावन्मात्र एव सः । | एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वमात्राः स्थितयोऽतिक्रान्ता भवन्ति । एतासां च स्थितीनां पूर्वपुरुषैः परावर्त्तमानजघन्यानुभागबन्धप्रायोग्या इति नाम कृतम् । एतासां चोपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽपि तृतीयस्यां सोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्त्तनकण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततो यतः स्थितिस्थानादुत्कृष्टमन भागमुक्त्वा निवृत्तस्तत उपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽप्युपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवमुपर्युपर्यनन्तगुणताऽनुभागस्य तावद्वाच्या यावदभव्यप्रायोग्यजघन्यानुभागबन्धस्याधश्वरमा