SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः अनुभागबन्धमरूपणा. ॥१५॥ ADDDDED भाषेत यावत्सर्वजघन्या स्थितिरायाति । कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अनुक्ता भवन्ति । तेऽप्यधोधः क्रमेणानन्तगुणा वक्तव्या यावत्सर्वजघन्या स्थितिः। एवं मनुष्यगतिमनुष्यानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरादिषद्कोच्चैर्गोत्राणामपि वक्तव्यम् । ____ असातस्य जघन्यस्थितौ जघन्यानुभागः सर्वस्तोकः । ततो द्वितीयादिस्थितिषु सागरोपमशतपृथक्त्वपर्यन्तं तावन्मात्र एव वाच्यः। | तत उपरितनस्थितौ जघन्यानुभागोऽनन्तगुणः । ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डक| स्थासंख्येया भागा गता भवन्ति एकोऽवतिष्ठते । ततो जघन्यस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो द्वितीयादिस्थितिषु यथोत्तरमु| त्कृष्टोऽनुभागः कण्डकमात्राः स्थितीर्यावदनन्तगुणो वाच्यः । ततो यतः स्थितिस्थानाजघन्यमनभागमुक्त्वा व्युपरतं तत उपरितने | स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः प्रागुक्तादुत्कृष्टानुभागविषयात्कण्डकादुपरि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो | यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकैकस्याः स्थितेर्जघन्यानुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावजघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च सागरोपमशतपृथक्त्वमात्रा भवन्ति यावत्सातरूपप्रतिपक्षप्रकृत्याक्रान्ताः स्थितयः परिनिष्ठामुपयन्तीत्यर्थः । ततः प्रागुक्तजधन्यानुभाग| कण्डकस्योपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तात् स्थितिस्थानादुपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः सागरोपमशतपृथक्त्वादुपरि द्वितीयस्यां स्थितावुत्ष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमुपर्यधोऽनन्तगुणं वदस्तावद्वजेद्यावदसातस्य सर्वोत्कृष्टा स्थितिर्भवति । क ॥१५१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy