________________
णास्तापहाच्या यावत्कण्डकस्यासंख्येयभागा गता भवन्ति एकोऽवशिष्यते । एताश्च स्थितयोऽसंख्येयभागहीनकण्डकमात्राः साकारोपयोगेनैव बध्यमानत्वात् पूर्वग्रन्थेषु साकारोपयोगसंज्ञा इति व्यवहियन्ते । तत उत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततः सम| योनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमधोऽधोऽवतीर्योत्कृष्टोऽनुभागोऽनन्तगुणस्तावद्वाच्यो यावत्कण्डकमात्राः स्थितयो गच्छन्ति । ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा पश्चाद्वलितं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तानां कण्डकमात्राणामुत्कृष्टानुभागस्थितीनामधस्तात्कण्ड|कमात्रासु स्थितिषत्कृष्टोऽनुभागः क्रमेणानन्तगुगो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तानां कण्डकमात्राणामुत्कृष्टानुभागस्थितीनामधस्तात्कण्डकमात्रासु स्थितिपत्कटोऽनुभागः क्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृचं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणः । एकमेकैकस्याः स्थितेर्जघन्यानुभागः कण्डकमात्राणां |च स्थितीनामुत्कृष्टोऽनुभागस्तावद्वाच्यो यावजघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परमुपलक्षणभाषया 2 | साकारोपयोगकण्डकसंज्ञं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च स्थितयोऽभव्यप्रायोग्यजघन्यस्थितिबन्धपर्यन्ताः सागरोपमशतपृथक्त्वप्रमाणाः समाप्यन्ते । ततः साकारोपयोगकण्डकादधस्तनप्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यस्थितेरधः प्रथमस्थितौ उत्कृष्टानुभागोऽनन्तगुणः । ततः साकारोपयोगकण्डकस्याधो द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यस्थितेरधो द्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया तावद्